SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ द्वितीयं दृश्यम् [बेस्सानियः धनसाहाय्यार्थं वेनिसनगरनिवासिनं विश्रुतं कुसीदकं शैलाकम् उपगच्छति । ] बेस्सानियः भो: शैलाक ! देहि मे स्वर्णमुद्राणां सहस्रं धनं ऋणरूपेण । शैलाकः दास्यामि अवश्यं दास्यामि यद् अपेक्षितं धनम् । कन्याशुल्कनिमित्तं धनम् इष्यते इत्यतः अहं गृहीतस्य धनराशिमात्रस्य मासत्रयावधौ प्रत्यर्पणम् अपेक्षे । न तु वृद्धि(Interest ) सहितस्य । मासत्रयावधौ यदि धनं मे न प्रतिनिवर्तयिष्यते तर्हि तस्य ऋणग्रहीतुः शरीरात् एकपौण्ड्-मितं मांसपिण्डं छित्त्वा ग्रहीष्यामि । एतत्समर्थकं लिखितं प्रमाणपत्रं तेन अण्टोनियन स्वहस्ताक्षरैः अङ्कितव्यम् । अपि एतत् तव सम्मतम् ? [ एतदुग्रं प्राणघातकं प्रमाणपत्रं कथं वा देयम् इति बहुधा चिन्तयन् परिणयातुरः बेस्सानियः सख्युः अण्टोनियस्य गृहं प्रति धावति । तमुपगम्य ] बेस्सानियः सखे ! यद्यपि मम धनावश्यकता उत्कटा वर्तते तथा अपि तेन कुसीदकेन यहूदिना शैलाकेन ऋणप्रत्यर्पणविषये य: निर्बन्ध: विधित्स्यते यत् मासत्रयावधौ धनप्रत्यर्पणस्य वैफल्ये जाते तव शरीरात् एकपौण्डमितं मांसपिण्डं छित्त्वा ग्रहीष्यते इति यत्, तत् मे न एव रोचते । कर्तव्यं किम् अत्र ? इति भ्रान्तः अस्मि मित्र ! | Jain Education International अण्टोनियः अत्र चिन्ता मा अस्तु मित्र ! | शैलाकेन यद् अपेक्ष्यते तत् पूरयिष्यते - इति तं वद । यतः मच्छरीरात् मांसपिण्डच्छेदनादिकं तु औपचारिकम् एव भविष्यति । तद् गच्छ शीघ्रम् । मद्धस्ताक्षरैः अङ्कनीयं प्रमाणपत्रं गृहीत्वा प्रत्यागच्छ । अन्यथा पोषिया हस्तान्तरिता भवेत् । नूनं मासत्रयावधेः पूर्वम् एव षड् अपि मम वाणिज्यनौकाः प्रतिनिवर्त्स्यन्ते । इत्यतः ऋणप्रत्यर्पणविषये न अस्ति का अपि चिन्ता । तद् गच्छ, कार्यं च साधय । - ९८ For Private & Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy