SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ (३) आर्यनागसेन ! किं भवन्तः भिक्षवः अतीतकालीनं शोकं विनाशयितुं प्रयत्न कुर्वन्ति वा ? SHARMA न एव महाराज ! तर्हि भाविनं शोकं व्यपगमयितुं प्रयस्यन्ते वा ? नहि महाराज ! तर्हि वर्तमानं शोकं दूरीकर्तुं प्रयतन्ते वा ? न, तम् अपि न ! ननु भूतकालीनस्य भविष्यतः साम्प्रतस्य च शोकस्य विनाशाय भवन्तः न यतन्ते तर्हि किं कर्तुं भवन्तः प्रयतन्ते ? _ महाराज ! भवान् अपि कीदृशं प्रश्नं पृच्छति ? वयं हि शोकाख्यं यद् वस्तु । अस्ति, तत् सर्वथा यथा विनश्येत पुनः च कदाचिद् अपि न उत्पद्येत इति एतदर्थम् एव प्रयतामहे । ननु नागसेनार्य ! अधुना अस्मिन् क्षणे भाविकालीनस्य शोकाख्यवस्तुनः अस्तित्वं विद्यते वा ? नहि महाराज ! तत् तु अहम् अपि स्वीकरोमि । तर्हि यद् न अस्ति एव तद् दूरीकर्तुं प्रयतमाना भवन्तः अतिशयेन चतुराः - दृश्यन्ते । महाराज ! भवतः प्रतिस्पर्धिनः राजानः भवतः नगरं कदाचिद् आक्रामन्ति वा? - नूनम् आक्रामन्ति । ननु तदात्वे एव, मन्ये अहं यद्, भवान् प्राकारं प्रगुणीकुर्याद् वा, परिखादिकं खनयेद् वा नगराद् बहिः, शत्रुनिरीक्षार्थं कूटादिकं कारयेद् वा, धान्यसञ्चयं कुर्याद् वा? स न एव आर्य ! नहि एव । तत् सर्वं तु पूर्वम् एव प्रगुणीभूतं स्यात् ।। तर्हि तदा एव भवान् भवतः सैनिकाः च गजाङ्कशनम् अश्वारोहणं रथचालनं शस्त्रक्षेपणं च इत्यादिकम् अभ्यस्यन्ति वा ? २ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy