SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ सप्तदशोऽधिकारः ध्यानस्तुतिः [शालिनी] ॥१॥ રો રો ॥४ा यं सेवन्ते पूरुषाः सिद्धबुद्धा, यस्योपास्त्या सिद्धयः सम्भवन्ति । यन्माहात्म्यं गातुमीशोऽप्यनीश-स्तं वन्दे सद्ध्यानराजाधिराजम् यत्सान्निध्यं सन्निधिों जहाति, ब्रह्माण्डं यत्पादपद्मेऽलिभूतम् । रम्योल्लासो यत्कटाक्षेक्षणोत्थ-स्तं वन्दे सध्यानराजाधिराजम् चक्रं यस्य ब्रह्मरन्धाख्यमिद्धं, दोषान् सर्वान् मुक्तनिद्रं व्यपास्ते । क्षेत्रं षट्खण्डात्मकं शास्त्यखण्डं, तं वन्दे सध्यानराजाधिराजम् नाडीनामुलासनं यस्तनोति, त्रैलोक्यं यः पश्यतीष्टस्वपम् । यद्वीक्षातो दुःखदौर्गत्यनाश- स्तं वन्दे सद्ध्यानराजाधिराजम् येऽभूवन् ये भाविनो ये भवन्ति, प्राप्तानन्तश्रेयसानन्दकन्दाः । ते सर्वेऽपि प्रीतितो यस्य शश्वत्, तं वन्दे सद्ध्यानराजाधिराजम् ॥५॥ यः पूर्णो यं स्मः श्रिता येन तुल्यं, नाऽन्यद्यस्मै स्तानमः शर्म यस्मात् । तेजो यस्योच्चैःपदं भाति यस्मिन् , तं वन्दे सद्ध्यानराजाधिराजम् ॥६॥ यत्स्वाधीनं विश्वविश्वस्वरूपम्, सम्पूर्णाशानन्दितात्मीयभूपम् । सम्प्राप्तानन्तात्मशर्माभिरामं, तं वन्दे सद्ध्यानराजाधिराजम् गङ्गासिन्धू नाडिके चन्द्रसूर्य, क्षेत्रं सम्यक् षड्विभागं विधत्तः । तज्जित्वा यो भ्राजते लब्धप- स्तं वन्दे सध्यानराजाधिराजम् ૮ી १० For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy