________________
पल्लवाद्यपुनर्भावो, न स्कन्धापगमे तरोः । स्यान्मूलापगमे यद्वत्, तद्वद् भवतरोरपि ॥४०८॥ मूलं च योग्यता ह्यस्य, विज्ञेयोदितलक्षणा ।
पल्लवा वृत्तयश्चित्रा, हन्त तत्त्वमिदं परम् ॥४०९॥ अध्यात्मादिषु पञ्चसु अपि योगभेदेषु तात्त्विकातात्त्विकादिभेदानां सङ्घटनम्
___ तात्त्विकातात्त्विकभेदौ - अध्यात्म भावना च इत्येतौ योगौ व्यावहारिकनयम् आश्रित्य तन्नाम कारणे कार्योपचारम् आश्रित्य अपुनर्बन्धकसम्यग्दृष्टिजीवानां तात्त्विको भवतः किन्तु निश्चयनयदृष्ट्या तु चारित्रवताम् एव एतौ तात्त्विको भवतः ।
सकृद्बन्धक-द्विर्बन्धकादिजीवानां तु द्वौ अपि एतौ योगौ निश्चयनयेन व्यवहारनयेन चाऽपि अतात्त्विको एव भवतः, यतः तादृशानां जीवानाम् आत्मपरिणामः न तादृशः निर्मलः वर्तते । अतः वेषग्रहणादिका तस्य चेष्टा अपि केवलं श्रद्धाशून्यक्रियामात्रं भवति ।
ध्यानं समता वृत्तिसंक्षयः च इति योगाः यथोत्तरं शुद्धिम् अपेक्ष्य चारित्रिणाम् एव नियमेन तात्त्विकाः एव भवन्ति, न अन्येषाम् ।
अपुनर्बन्धकस्याऽयं, व्यवहारेण तात्त्विकः । अध्यात्मभावनारूपो, निश्चयेनोत्तरस्य तु ॥३६९॥ सकृदावर्तनादीना-मतात्त्विक उदाहृतः । प्रत्यपायफलप्राय-स्तथा वेषादिमात्रतः ॥३७०॥ चारित्रिणस्तु विज्ञेयः, शुद्ध्यपेक्षो यथोत्तम् ।
ध्यानादिरूपो नियमात्, तथा तात्त्विक एव तु ॥३७१॥
सानुबन्धनिरनुबन्धभेदौ - उपर्युक्तानां योगानां धारकः जीव: यदि अनपाय:तन्नाम योगार्थं बाधकैः क्लिष्टकर्मभिः रहितः-स्यात् तस्य एते योगाः सानु । भवन्ति । यः च जीव: योगबाधकक्लिष्टकर्मभिः युक्तः भवति तस्य एते योगा: निरनुबन्धाः भवन्ति।
doot
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org