SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ अपायः नाम पूर्वस्मिन् काले उपार्जितानि नानाविधानि अवश्यभोग्यानि चित्ते च पापवृत्त्युत्पादकानि कर्माणि । तानि एव अपायभूतानि सन्ति । अत्र मतान्तरं दर्शयति मोक्षमार्गे प्रवृत्तानाम् आत्मनां ये कण्टक- ज्वरमोहतुल्याः विघ्नाः सन्ति ते एव अपाया: इति । - यथा स्वेष्टस्थानगमनप्रवृत्तानां केषाञ्चित् जनानां मार्गे कण्टकाः विलगन्ति केचित् तु ज्वरग्रस्ताः भवन्ति, केचित् च दिग्भ्रान्त्या अन्यस्यां दिशि गच्छन्ति । एवं च इष्टस्थानप्राप्तौ अनुक्रमेण स्तोकस्य बहोः बहुतरस्य च कालस्य विलम्बः भवति । तथैव योगमार्गप्रवृत्तानाम् अपि विचित्रकर्मोदयात् जघन्य -- मध्यमो - त्कृष्टस्वरूपाः त्रिप्रकाराः विघ्नाः जायन्ते । एते विघ्नाः एव अपायाः इति उच्यन्ते । अस्यैव त्वनपायस्य, सानुबन्धस्तथा स्मृतः । यथोदितक्रमेणैव, सापायस्य तथाऽपरः ॥३७२॥ अपायमाहुः कर्मैव, निरपायाः पुरातनम् । पापाशयकरं चित्रं, निरुपक्रमसंज्ञकम् ॥ ३७३ ॥ कण्टक ज्वरमोहैस्तु, समो विघ्नः प्रकीर्तितः । मोक्षमार्गप्रवृत्ताना- मत एवाऽपरैरपि ॥ ३७४ ॥ सास्त्रवानास्त्रवभेदौ – अपाययुक्तानां योगिनाम् अनेकभवपरम्परायाः कारणरूपः सास्त्रवयोगः भवति । यतः निरुपक्रमकर्माणि पापाशयकराणि च कर्माणि अवश्यं भोक्तव्यानि भवन्ति । यत्र च प्रवर्तमानः एकः एव भवः अस्ति सः अनास्त्रवयोगः इति उच्यते । आस्रवस्य कर्मबन्धहेतुत्वात् सः अपि बन्धः एव । सः च बन्धः साम्परायिकबन्धः इति कथ्यते । साम्परायिकबन्धः नाम कषायनिमित्तैः जायमानः बन्धः । अतः एव च आस्रवस्य साम्परायिकबन्धः इति अर्थः अपि सङ्गतः एव । Jain Education International ये च चरमशरीरिण: जीवाः तेषु कषायाणाम् अभावात् अन्येषाम् आस्रवाणाम् अपि अभावः अस्ति । अतः च तेषाम् अनास्रवयोगः भवति । ५० For Private & Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy