________________
-
ननु कर्मबन्धस्य चत्वारः हेतवः सन्ति - मिथ्यात्वम् अविरतिः कषायाः योगाः च इति । अथ यद्यपि चरमशरीरिणाम् आत्मनां मिथ्यात्वाविरतिकषायरूपाणां त्रयाणां हेतूनां नाशः सञ्जातः एव तथाऽपि योगरूपः चतुर्थः हेतुः तु तेषाम् अपि विद्यते एव, अतः एव च तन्निमित्तकः कर्मबन्धः अपि भवति एव । तर्हि 'तेषाम् अनास्रवयोगः अस्ति' - इति कथं वक्तुं शक्यते ?
सत्यम् । निश्चयनयमतेन तु सर्वथा अयोगिकेवलिनाम् एव अनास्रवयोगः भवति । एवं सत्यपि सयोगिकेवलिनां यः योगः अस्ति सः निश्चययोगस्य कारणम् अस्ति । अतः सः अपि अनास्रवयोगः एव इति न कश्चित् दोषः ।
अस्यैव सासवः प्रोक्तो, बहुजन्मान्तरावहः । पूर्वव्यावर्णितन्याया-देक्जन्मा त्वनासवः ॥३७५॥ आस्रवो बन्धहेतुत्वाद्, बन्ध एवेह यन्मतः । स साम्परायिको मुख्य-स्तदेषोऽर्थोऽस्य सङ्गतः ॥३७६॥ एवं चरमदेहस्य, सम्परायवियोगतः । इत्वरावभावेऽपि, स तथाऽनासवो मतः ॥३७७॥ निश्चयेनाऽत्र शब्दार्थः, सर्वत्र व्यवहारतः ।
निश्चयव्यवहारौ च, द्वावप्यभिमतार्थदौ ॥३७८॥ योगस्य अन्यत् स्वरूपम् -
विधा शुद्धमनुष्ठानं, सच्छास्त्रपरतत्रता ।
सम्यक्प्रत्ययवृत्तिश्च, तथाऽत्रैव प्रचक्षते ॥१०॥ त्रिभिः प्रकारैः शुद्धम् अनुष्ठानम्, सच्छास्रपारतन्त्र्यम्, सम्यक्प्रत्ययवृत्तिः च इति त्रिप्रकारकः अपि योगः भवति । तत्र
(१) त्रिधा शुद्धम् अनुष्ठानम् - विषयशुद्धम् अनुष्ठानम्, स्वरूपशुद्धम् अनुष्ठानम्, अनुबन्धशुद्धम् अनुष्ठानं च इति त्रिभिः प्रकारैः शुद्धम् अनुष्ठानं वर्ण्यते । एते त्रयः अपि प्रकाराः उत्तरोत्तरम् अन्यस्मात् अन्यस्मात् प्राधान्येन वर्तन्ते । तन्नाम विषयशुद्धानुष्ठानात्
५१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org