________________
And
स्वरूपशुद्धानुष्ठानं श्रेष्ठं प्रधानं वा, स्वरूपशुद्धानुष्ठानात् च अनुबन्धशुद्धानुष्ठानं श्रेष्ठं प्रधानं वा । तत्र
'अनेन अनुष्ठानेन मम मुक्तिः भवतु' - इत्येवंरूपेण अभिलाषेण मोक्षं लक्षीकृत्य या पतन-शस्त्रपाटन-गृध्रपृष्ठार्पणादिका स्वघातोपायस्वरूपा क्रिया क्रियते सा विषयशुद्धानुष्ठानम् । विषयः नाम लक्ष्यम्, तत् यत्र शुद्धं तत् विषयशुद्धम् अनुष्ठानम् । अत्र पतनादिरूपेण स्वघातादिक्रिया अपि मुक्तेः अभिलाषेण एव क्रियते अतः सा अपि विषयशुद्धानुष्ठानम् इति उच्यते । एतत् अनुष्ठानं न स्वरूपतः शुद्धम्, यतः तत्र आत्मघातस्य प्रवृत्तित्वात् तत् पापस्वरूपम् अनुष्ठानम् अस्ति ।
लोकव्यवहारम् आश्रित्य यत् यमनियमादीनां पालनं क्रियते तत् स्वरूपशुद्धम् अनुष्ठानं भवति । लोकाचारात् एव क्रियमाणत्वात् सम्यग्ज्ञानस्य सम्यक्श्रद्धानस्य च अभावात् एतत् यमनियमादीनां पालनं न शास्त्रानुसारि भवति ।
एतत् एव उपर्युक्तं यमनियमादीनां पालनं यदा तत्त्वसंवेदनेन-जीवादितत्त्वानां सम्यग्ज्ञानेन, अत्यन्तम् औत्सुक्यरहितं, प्रशान्तवृत्त्या च भवति तदा तदेव अनुबन्धशुद्धानुष्ठानम् इति उच्यते ।
विषयात्मानुबन्धैस्तु, त्रिधा शुद्धमुदाहृतम् । अनुष्ठानं प्रधानत्वं, ज्ञेयमस्य यथोत्तम् ॥२११॥ आद्यं यदेव मुक्त्यर्थं, क्रियते पतनाद्यपि । तदेव मुक्त्युपादेय-लेशभावाच्छुभं मतम् ॥२१२॥ द्वितीयं तु यमाद्येव, लोकदृष्ट्या व्यवस्थितम् । न यथाशास्त्रमेवेह, सम्यग्ज्ञानाद्ययोगतः ॥२१३॥ तृतीयमप्यद: किन्तु, तत्त्वसंवेदनानुगम् ।
प्रशान्तवृत्त्या सर्वत्र, दृढमौत्सुक्यवर्जितम् ॥२१४॥ त्रयाणाम् अनुष्ठानानां फलम्
- (अ) केवलेन विषयशुद्धानुष्ठानेन मोक्षबाधकानां दोषाणां नाशः न भवति एव।।
५२ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org