________________
यतः तत्र अज्ञानस्य बाहुल्यं वर्तते । आत्मघातादिकं तु अज्ञानतायाः एव लक्षणम् अस्ति । एवं सत्यपि अनेन विषयशुद्धानुष्ठानेन मोक्षबाधकदोषाणां विगमः यत्र भवेत् तादृशं जातिकुलादिसहितं जन्म तत्कर्तारः प्राप्नुवन्ति इति केषाञ्चित् शास्त्रकाराणां मतम् अस्ति ।
मोक्षप्राप्तेः इच्छा अपि प्रशंसनीया अस्ति । यतः तादृशी इच्छा अपि मोहनाशकर्त्री भवति । अतः एव मुक्तिः तु सर्वकल्याणरूपा अस्ति । एतत् अनुष्ठानं तु पापस्वरूपत्वात् तत्र अत्यन्तं वैसदृश्यं वर्तते । अतः च अत्यन्तं पापस्वरूपम् एतत् अनुष्ठानं सर्वथा दोषरहितायाः मुक्तेः कारणं न भवति । ततः च दोषविगमः न भवति । आद्यान्न दोषविगम - स्तमोबाहुल्ययोगतः । तद्योग्यजन्मसन्धान - मत एके प्रचक्षते ॥२१५॥
मुक्ताविच्छाsपि यच्छ्लाघ्या, तमः क्षयकरी मता । तस्याः समन्तभद्रत्वा-दनिदर्शनमित्यदः ॥२१६॥
(ब) द्वितीयेन स्वरूपशुद्धेन अनुष्ठानेन तु दोषाणां ह्रासः यद्यपि भवति तथाऽपि न सः सानुबन्धः भवति । अर्थात् विनष्टानां दोषाणां पुनः उद्भवनं यथा न स्यात् तथा दोषहासः न भवति । यथा भस्मसात्कृतात् मण्डूकचूर्णात् मण्डूकानाम् उत्पत्तिः न भवति किन्तु केवलात् चूर्णात् तु निमित्तसंयोगे सति उत्पत्तिः भवति एव, तथैव अनेन स्वरूपशुद्धानुष्ठानेन यः दोषक्षयः भवति सः अदग्धमण्डूकचूर्णतुल्यः भवति; अतः एव च निमित्तसंयोगे पुनरपि दोषाः प्रादुर्भवन्ति । निश्चयेन अत्र गुरुलाघवादिचिन्ता न विद्यते । अर्थात् केन गुणेन अधिकलाभः जायते केन च अल्पलाभः जायते, केन दोषेण अधिकहानिः केन च अल्पहानिः भवति इत्यादिका चिन्ता- विचारणा एव अत्र अनुष्ठाने न विद्यते । तथाविधविवेकाभावात् च कायिकी चेष्टा एव भवति । अत: च आत्यन्तिकः दोषविगमः न भवति । उक्तं च
Jain Education International
-
-
“कायकिरियाए दोसा, खविया मण्डुक्कचुण्णतुल्लति । सव्वावणए ते पुण, नेया तच्छारसारिच्छा ॥” इति
१. कायक्रियया दोषाः क्षपिता मण्डूकचूर्णतुल्या इति । सर्वापनये ते पुन- - ज्ञेयाः तत्क्षारसदृशाः ॥
५३
For Private & Personal Use Only
www.jainelibrary.org