________________
द्वितीयाद् दोषविगमो, न त्वेकान्तानुबन्धनात् ।
गुरुलाघवचिन्तादि, न यत्तत्र नियोगतः ॥२१७॥ (क) तृतीयेन अनुबन्धशुद्धेन अनुष्ठानेन तु निश्चयतः सानुबन्धः दोषविगमः भवति । अन्ये अपि तीर्थान्तरीयाः एवं सानुबन्धदोषानाशं देवगृहादीनां दृढमूलतुल्यं वर्णयन्ति । यथा प्रथमं यदि गृहस्य मूलं दृढं कृतं स्यात् तर्हि तदुपरि रचितं भवनादिकं न नश्यति किन्तु दीर्घकालं यावत् सुरक्षितं स्थिरं च तिष्ठति तथैव च तत्त्वसंवेदनेन युक्तम् अनुष्ठानम् अपि उत्तरोत्तरं दोषनाशाय भवति ।
एतत् अनुष्ठानं गुरुलाघवादिचिन्तया युक्तं भवति । अतः एव च उदारफलदायकं सम्पद्यते । गुरुलाघवादिचिन्तया क्रियमाणा सर्वा अपि प्रवृत्तिः सर्वत्र महोदयाय एव भवति ।
तृतीयाद् दोषविगमः सानुबन्धो नियोगतः । गृहाद्यभूमिकापात-तुल्यः कैश्चिदुदाहृतः ॥२१९॥ एतद् व्युदग्रफलदं, गुरुलाघवचिन्तया ।
अतः प्रवृत्तिः सर्वैव, सदैव हि महोदया ॥२२०॥ (२) सच्छास्त्रपारतन्त्र्यम् - (अत्यन्तं सरलया शैल्या तथाऽपि दृढतया अत्र शास्त्रस्य महिमा तत्पारतन्त्र्यं च वर्णिते स्तः ।) परलोकस्य साधनायै तु शास्त्रम् एव एकम् आलम्बनम् । स्वमतिकल्पनया लोकहेर्या वा कृता क्रिया न कदापि हिताय भवति । पापरोगनाशकम् औषधम् अपि शास्त्रम् एव अस्ति । अज्ञानरूपस्य अन्धत्वस्य निवारकं चक्षुरपि शास्त्रम् एव । शास्त्रेणैव च सर्वार्थसिद्धिः भवति । अतः एव च शास्त्रे यत्नः अवश्यं विधेयः, यत: मोहस्य अन्धतमसं निवारयितुं शास्त्रम् एव आलोकः अस्ति । शास्त्रं प्रति आदरेण एव च धर्मक्रियाः अपि यथार्थफलदायिन्यः भवन्ति । यतः यस्य शास्त्रे आदरः अस्ति तादृशः श्राद्धः जनः अहङ्कारहितः भवति, गुणरागी भवति, तथा तस्य हृदये पूज्येषु बहुमानं प्रवर्तते । ततः च तस्य धर्मक्रिया अपि प्रकृष्टा गण्यते । यस्य च शास्त्रे अनादरः अस्ति तस्मिन् जने श्रद्धादयः गुणाः प्रायः न भवन्ति, कदाचित् स्युः अपि ते गुणाः तर्हि ग्रहाविष्टजनस्य उन्मादैः तुल्या: भवन्ति, ये च न प्रशंसास्पदाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org