________________
MAN
NANCY
अतोऽपि केवलज्ञानं, शैलेशीसम्परिग्रहः । मोक्षप्राप्तिरनाबाधा, सदानन्दविधायिनी ॥३६७॥ शैलेशीसंज्ञिताच्चेह, समाधिरुपजायते ।।
कृत्सकर्मक्षयः सोऽयं, गीयते वृत्तिसंक्षयः ॥४९५॥ वृत्तिसंक्षययोगस्य विशेषवर्णनम् -
भावना-ध्यान-समतारूपाणां योगत्रयाणाम् अभ्यासेन वृत्तिसंक्षययोगः प्राप्यते । आत्मनि कर्मसंयोगस्य या योग्यता विद्यते तस्याः व्यवच्छेदः अस्ति वृत्तिसंक्षयस्य अर्थः । आत्मनि वर्तमानाः याः कर्मसंयोगजन्याः स्थूलाः सूक्ष्मा: च चेष्टा: ता: वृत्तयः इति उच्यन्ते । तासां मूलम् अस्ति एषा योग्यता । एषा योग्यता एव भवमाता अस्ति। अन्यसंयोगाः अपि अतः कारणात् एव उत्पद्यन्ते ।
__ योग्यतायाः अभावे अपि यदि अन्यसंयोगः स्वीक्रियते तर्हि तत्र अतिप्रसङ्गः भवति । यतः ये जीवाः मोक्षं प्राप्ताः-सिद्धा: जाताः, ते तादृश्याः योग्यतायाः अभावात् एव न पुनः कर्माणि बध्नन्ति । अतः यदि 'योग्यताभावे अपि अन्यसंयोगः भवति' - इति स्वीक्रियते तर्हि तेषाम् अपि कर्मसंयोगः स्वीकरणीयः भविष्यति । यत् तु न सम्मतम् इष्टं वा कस्य अपि ।
___ यथा वृक्षस्य स्कन्ध-शाखा-प्रशाखादीनां नाशेन पल्लवफलादीनाम् अपुनर्भावः न भवति किन्तु मूलोच्छेदेन एव भवति तथैव भववृक्षस्य अपि योग्यतारूपस्य मूलस्य उच्छेदेन एव विचित्रवृत्यादिरूपाणां पल्लवादीनाम् अपुनर्भावः भवति । सः एव च उच्छेदः वृत्तिसंक्षययोगः अस्ति ।
भावनादित्रयाभ्यासाद्, वर्णितो वृत्तिसंक्षयः । स चाऽऽत्मकर्मसंयोग-योग्यतापगमोऽर्थतः ॥४०५॥ स्थूलसूक्ष्मा यतश्चेष्टा, आत्मनो वृत्तयो मताः । अन्यसंयोगजाश्चैता, योग्यता बीजमस्य तु ॥४०६॥ तदभावेऽपि तद्भावो, युक्तो नाऽतिप्रसङ्गतः । मुख्यैषा भवमातेति, तदस्या अयमुत्तमः ॥४०७॥
४८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org