________________
HOME
रागद्वेषादिभावाः उत्पद्यन्ते तत्र अनादिवितथवासनारूपायाः अविद्यायाः उत्पद्यमानाः विकल्पाः एव कारणम् । यदा च शब्दादिविषयाणां सम्यग्ज्ञानं जायते तदा च इष्टानिष्टानां वस्तूनां परिहारेण तत्र वस्तुषु यत् तुल्यताभानं जायते तदेव समतायोगः ।
एषः समतायोगः यदा सिद्ध: भवति तदा ऋद्धिसिद्धिलब्ध्यादीनाम् उपयोगे विरक्तिः जायते, आत्मनः मूलभूतानां ज्ञानदर्शनादिगुणानाम् आवरकाणि यानि सूक्ष्मकर्माणि तेषां क्षयः भवति, चित्ते प्रवर्तमानाया: इच्छायाः परम्परायाः विच्छेदः भवति । एतानि फलानि सन्ति समतायोगस्य सिद्धेः ।
अविद्याकल्पितेषूच्चै - रिष्टानिष्टेषु वस्तुषु ।
संज्ञानात् तद्वयुदासेन, समता समतोच्यते ॥ ३६४ ॥ ऋद्ध्यपवर्तनं चैव, सूक्ष्मकर्मक्षयस्तथा । अपेक्षातन्तुविच्छेदः, फलमस्याः प्रचक्षते ॥ ३६५॥
(५) वृत्तिसंक्षययोगः - मूलभूतरीत्या - निश्चयनयदृष्ट्या तु आत्मा विकल्पादितरङ्गैः मुक्तः अस्ति । एवं सत्यपि तादृशानां मनोद्रव्याणां संयोगेन विकल्पवृत्तिः शरीरादियोगेन च परिस्पन्दवृत्तिः दृश्यते । एतासां विकल्पवृत्तीनां केवलज्ञानप्राप्तिकाले तथा परिस्पन्दवृत्तीनां च अयोगिकेवल्यवस्थायां पुनः यथा न स्युः तथा यः निरोधः भवति सः वृत्तिसंक्षययोगः इति उच्यते ।
अनेन च वृत्तिसंक्षययोगेन कैवल्यप्राप्तिः जायते, शैलेश्यवस्था च प्राप्यते । अत्र शीलं नाम मनोवाक्कायानां सर्वयोगानां संवरः निरोधः वा, तस्य यः स्वामी सः शीलेशः, तस्य च या अवस्था सा शैलेश्यवस्था सा अवस्था प्राप्यते, तथा सदैव आनन्ददायिनी च मोक्षप्राप्तिः अपि निराबाधं भवति ।
अन्यत् च शैलेश्यभिधानस्यः समाधेः सकलकर्मणां यः क्षयः भवति सः एव वृत्तिसंक्षययोगः अस्ति । सः च योगेषु नृपतितुल्य: गण्यते ।
Jain Education International
अन्यसंयोगवृत्तीनां, यो निरोधस्तथा तथा । अपुनर्भावरूपेण, स तु तत्संक्षयो मतः ॥ ३६६॥
४७
For Private & Personal Use Only
www.jainelibrary.org