________________
वाचकानां प्रतिभावः
मान्याः
डॉ. रूपनारायण पाण्डेयः
एम् - II / ३३० राज्यशिक्षा संस्थान कॉलोनी, एलनगञ्ज
प्रयागः उ.प्र. २११००२
सादरं प्रणामाः
तत्रभवद्भिः प्रहितः नन्दनवनकल्पतरुः (दशमः ) मया अधिगतः । अत्र डॉ. राजेन्द्र मिश्रस्य " जय शिव ! गौरि ! जननि ! जय गङ्गे !" इति कविता वाराणस्याः वैदुष्यपरम्परां संस्मारयति, तस्याः सांस्कृतिकं च गौरवं गायति । आचार्य धर्मधुरन्धरसूरे: "अध्यात्मसारानुगमः” सरल भाषया अध्यात्मतत्त्वं विशदीकरोति । स्वामिश्रीब्रह्मानन्देन्द्रसरस्वतीस्वामिनः " अहिंसातत्त्वअनुष्ठानं च’” “नागानन्दनवनीतम्" इति रचनाद्वयं सिद्धान्तेन व्यवहारेण रूपकेण च अहिंसायाः याथार्थ्यं प्रस्तौति । "नागानन्दनवनीते" नागानन्दरूपकं भागवतादिपुराणगतकथां च अनुसृत्य अहिंसायाः रम्या प्रतिष्ठा विहिता ! अन्याः अपि रचना: हृदयं प्रसादयन्ति ।
सन्धिराहित्यस्य साहित्यस्य प्रकाशनस्य विचारः संस्तुत्यः अस्ति, किन्तु समासादिषु यत्र सन्धेः अनिवार्यता विद्यते सा कथम् अपि न उपेक्षणीया इति चिन्तनीयम् ।
जयतु संस्कृतं संस्कृतिश्च ॥
Jain Education International
ix
For Private & Personal Use Only
www.jainelibrary.org