SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ मनुष्यत्वं प्रमाणं चेत्, शास्त्रं समनुधावति । आचार्यश्च तदा राजा, मिथो मैत्री समाप्नुतः ॥२॥ शस्त्रं सम्परिवर्तेत, न शास्त्रं परिवर्तते । शास्त्रं न पुरुषायत्तं, पुरुषाश्रयमेव च ॥३॥ यथा कालो यथा शत्रु-र्यथैव स्वबलं भवेत् । तथा निर्मीयते शस्त्रं, न शास्त्रं केनचित् क्वचित् ॥४॥ नीति'लाऽपि कल्प्येत, रक्षणे शस्त्रशास्त्रयोः । न चैकविधः कालः, रक्ष्यं तु द्वितयं नरैः ॥५॥ शस्त्रं संरक्ष्यते दुर्ग-र्बलवनिर्भटैरपि । मत्रज्ञैरपि चाऽमात्यै-स्तथा प्रभुबलेन च ॥६॥ शास्त्रं संरक्ष्यते वर्ण-बलवत्पण्डितैरपि । मत्रज्ञैरपि भूपालै-स्तथाऽऽचार्यबलेन च ॥७॥ नीतेधर्मेण सौभाग्यं, नीत्या धर्मस्य तत् तथा । अन्योन्यविमुखत्वे तु, विधवाविधुरौ च तौ ॥८॥ अत एव तथा लोके, दृश्यते प्रायशो जनैः । विधवाविधुराभ्यां हि, समन्तात् पूरितं जगत् ॥९॥ मङ्गलं राजपुण्येन. ज्ञानमाचार्यपुण्यतः । तीने पुण्योदये शुद्धे, पृथ्वीभाग्योदयो भवेत् ॥१०॥ इति अलं विस्तरेण । जानकी एपार्टमेन्ट, 1st फ्लोर, लालामेतानी शेरी, जामनगर-३६१००१ किं एत्तो कठ्यरं जं मूढो थाणुअंमि आवडिओ । थाणुस्स तस्स रूसइ न अप्पणो दुप्पओगस्स ॥ (शीलाङ्काचार्यकृतायाम् आचाराङ्गवृत्ती) Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy