SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ आस्वाद शास्त्री व्रजलालः वि. उपाध्यायः ___इह लोके अनर्थबहुले प्रसृत्वरकामनातन्तौ अर्थप्रधाने प्रवर्तमाने विश्वे तावत् चत्वारः प्रभुसत्ताकाः प्रभवः सत्ताधीशाः जागरूकाः सन्ति इति सर्वसुविदितम् एव । अस्तु, के ते इति शस्त्रं शास्त्रं धनं राजा, सन्तश्च प्रभव इमे । . चत्वारो लोकविदिता, मुमुक्षुत्ति पञ्चमम् ॥ १. शस्त्रम्, २. शास्त्रम्- पुस्तकस्थ, समृद्धाः ज्ञानकोषाः वा, आर्याणां मौनम् आकलितवती अपूर्वा सम्पद्, ३. धनम् - तत्स्वामिनः वा । अथ च ४. राजा - राष्ट्ररक्षकः (यस्य अस्माभिः प्रभोः अंशत्वेन (अस्मत्पूर्वजैः) प्रतिष्ठा कृता आसीत्-इति तु अन्यत् एव तत्त्वम्) । इमे चत्वारः समर्थाः स्वेप्सितकार्यकरणे प्रभविष्णवः विदिताः एव । पञ्चमं प्रभुं तु केवलं मुमुक्षुः साधकः अकिञ्चनः एव वेत्ति- जानाति, न अन्यः कश्चन । __ अलौकिकसत्त्वस्वामिनः सन्तः समर्थाः भक्ताः प्रभोः त्रिकालाबाधितसत्ताकस्य अस्तित्वस्वीकारवन्तः सानन्दाः महात्मानः साधुपुरुषाः अचिन्त्यशक्तिधरप्रभुसामर्थ्यसमुदित-निकटस्थ-स्वान्तःस्थ-आन्तरैश्वर्यमण्डितवाचंयमाः प्रभोः विद्यमानरूपं सर्वसत्ताधीशस्थानम् उररीकृत्य मौनिनः पुण्यभाजः विलसन्तुतराम् । तेषां पुण्यप्रभावेन एव जगत् सुरक्षितं वर्तते । अन्यैः धीधनैः सात्त्विकैः पण्डितंमन्यैः तु यदि सामान्यजनवत् आर्थिकदासत्वं स्वीक्रियते चेत् महती हानिः । इदम् एव दुःखस्थानम् इति । उक्तं च केन अपि आचार्यस्य बलं ज्ञान-माज्ञा सिंहासनेशितुः । ज्ञानमाज्ञा युगीभूय, कालं सम्परिवर्तयेत् ॥१॥ Jain Education International ७० For Private & Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy