SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ये पात्रजीवाः सन्ति, यथा- ये व्रतधारिणः व्रतसूचकवेषधारिणः च ते सामान्यतः पात्रजीवाः, ये च स्वयं भोजनं न पचन्ति न च पाचयन्ति किन्तु स्वसिद्धान्ताविरोधेन एव ये सर्वदा प्रवर्तन्ते ते विशेषेण पात्रजीवाः - तेभ्यः, तथा ये दीनान्धकृपणाः, विशेषेण व्याधिग्रस्ताः, धनहीनाः, स्वयं च आजीविकां निर्वोढुम् अशक्ता: तेभ्यः दानं दद्यात् । एतत् दानम् अपि तथा करणीयं यथा स्वगृहस्थितः मातृ-पितृ-पुत्रपुत्र्यादिपोष्यवर्गः न सीदेत् । 'गृहं प्रज्ज्वाल्य तीर्थाटनं न कर्तव्यम्' इति सारः। दत्तं च दानं तद्दातुः तद्ग्राहकस्य च उभयोः अपि उपकारार्थं स्यात् न किन्तु व्याधिषु अपथ्यम् इव अहितकरं स्यात् । एतादृशम् एव दानम् इष्टम् इष्टफलदायकं च भवति । एवं रीत्या दत्तम् एव च विधिदानम् उच्यते । पात्रे दीनादिवर्गे च, दानं विधिवदिष्यते । पोष्यवर्गाविरोधेन, न विरुद्धं स्वतश्च यत् ॥१२१॥ व्रतस्था लिङ्गिन: पात्र-मपचास्तु विशेषतः । स्वसिद्धान्ताविरोधेन, वर्तन्ते ये सदैव हि ॥१२२॥ दीनान्धकृपणा ये तु, व्याधिग्रस्ता विशेषतः । निःस्वाः क्रियान्तराशक्ता, एतद्वर्गो हि मीलकः ॥१२३॥ दत्तं यदुपकाराय, द्वयोरप्युपजायते । नाऽऽतुरापथ्यतुल्यं तु, तदेतद्विधिवन्मतम् ॥१२४॥ (२) सदाचार :- भिन्नभिन्नैः अनेकैः प्रकारैः अत्र सदाचारः वर्णितः अस्ति । सर्वेऽपि एते प्रकाराः हृदये दृढं भावनीयाः । १. लोकापवादात् भयम, २. दीनानाथादीनाम् उपकारे प्रयत्नः, ३. कृतज्ञता, ४. दाक्षिण्यम्, ५. हीनमध्यमोत्तमेभ्यः कस्यचित् अपि निन्दायाः अकरणम्, ६. सज्जनानां गुणकथायाः वर्णवादस्य च करणम्, ७. आपत्काले अपि दैन्यरहितत्वम्, ८. सम्पत्प्राप्तौ अपि नम्रता, ९. अवसरेऽपि अल्पम् अविसंवादि च भाषणम्, १०. स्वगृहीतव्रतनियमादीनां दायेन पालनम्, ११. कुलधर्मस्य अनुपालनम्, १२. अजितधनस्य अपव्ययस्य त्यागः, १३. उचितस्थले कार्पण्यं त्यक्त्वा धनस्य सद्व्ययः, १४. विशिष्टफलदायकेषु प्रयोजनेषु आग्रहः, १५. मद्य-विषय-कषाय-निद्रा ३६ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy