SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ RSPRE IT विकथास्वरूपाणां पञ्चानाम् अपि प्रमादानां सन्त्यागः, १६. अविरोधिनः लोकव्यवहारस्य पालनम्, १७. सर्वत्र औचित्यस्य पालनम्, १८. प्राणत्यागेऽपि निन्द्यप्रवृत्तीनां त्यागः - इति सदाचारप्रकाशः । लोकापवादभीरुत्वं, दीनाभ्युद्धरणादर: । कृतज्ञता सुदाक्षिण्यं, सदाचार: प्रकीर्तितः ॥१२६॥ सर्वत्र निन्दासत्यागो, वर्णवादश्च साधुषु । आपद्यदैन्यमत्यन्तं, तद्वत्सम्पदि नम्रता ॥१२७॥ प्रस्तावे मितभाषित्व-मविसंवादनं तथा । प्रतिपन्नक्रिया चेति, कुलधर्मानुपालनम् ॥१२८॥ असद्व्ययपरित्यागः, स्थाने चैतक्रिया सदा । प्रधानकार्ये निर्बन्धः, प्रमादस्य विवर्जनम् ॥१२९॥ लोकाचारनुवृत्तिश्च, सर्वत्रौचित्यपालनम् । प्रवृत्तिर्हिते नेति, प्राणैः कण्ठगतैरपि ॥१३०॥ (३) तपः तपोऽपि च यथाशक्ति, कर्तव्यं पापतापनम् । तच्च चान्द्रायणं कृच्छ्रे, मृत्युघ्नं पापसूदनम् ॥१३१॥ योगमार्गप्रवेशेप्सुभिः कर्मविघातकृत् तपः अपि स्वशक्त्यनुरूपम् आचरणीयम् । RATE यतः तपसा मोहादिकर्मणां प्रभावः मन्दः सञ्जायते । एवं च सञ्जातनिर्मलचित्तः जनः सौकर्येण योगमार्गं प्रविशति । अत्र चतुष्प्रकारकं तपः दर्शितम् अस्ति, तद्यथा-चान्द्रायणं, ( कृच्छं, मृत्युघ्नं, पापसूदनं च इति । तत्र १. चान्द्रायणतपसः विधिः - एकैकं वर्धयेद् ग्रासं, शुक्ले कृष्णे च हापयेत् । भुञ्जीत नामावास्याया-मेष चान्द्रायणो विधिः ॥१३२॥ MNANDAN ३७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy