SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ - - (Om आस्वाद: चिन्तनधारा । मुनिरत्नकीर्तिविजयः । "You're not bad, because of what you did, you're good, although what you did was bad." (Brock Tully) व्यवहारे कतिचित् वाक्यानि वारंवारं प्रयुज्यन्ते । यथा - 'मनुष्यमानं क्षते: A 2) पात्रम्, 'मनुष्यस्य एव क्षतिः भवति', 'यः कार्यं करोति तस्य एव स्खलनं भवति'- SAWAL इत्यादीनि । अत्र विडम्बना तु एतत् यत् एतेषाम् एतादृशानां वा वाक्यानां प्रयोगं मनुष्यः स्वदोषाच्छादनाय एव करोति । किन्तु यदा अन्यस्य क्षतिः भवति तदा सः एतानि सर्वाणि अपि विस्मरति । न एतावत् एव अपि तु अन्यं प्रति तिरस्कारं हीनताभावं वा आवहति । स्वस्य क्षतिः यदा भवति तदा सहसा एव तस्य स्मरणं भवति यत् 'अहं मनुष्यः अस्मि अतः क्षतिः जाता' । अन्यथा तु स्वं देवम् इव एव मत्वा सर्वदा है। विहरति । परन्तु अन्यस्य क्षतिं दृष्ट्वा तस्य एतादृशी मतिः न जायते यत् 'एषोऽपि मनुष्यः एव अतः मम इव तस्य अपि क्षतेः सम्भावना अस्ति एव' । स्वम् इव अपरम् (ग IVE) अपि सः देवतुल्यं गणयेत् - एतावती नाऽस्ति अत्र अपेक्षा किन्तु तदा सः तं मनुष्यम् IINE * अपि अगणयित्वा यत् व्यवहरति तत् तु विचारणीयम् । ततः एव क्लेशाः सङ्क्लेशाः ४ सन्तापाः तेषां परम्परा च उत्तिष्ठन्ते । 'यत् भूतं तत् किमर्थं भूतम् ?' - इत्यस्य एव M चर्चायां विवादे वा मनुष्यस्य मतिः मूढा भवति, किन्तु तादृशं पुनः यथा न स्यात् तदर्थं । किं करणीयम् अस्ति- इति विचारः अपि तस्य न स्फुरति । अतः एव च पुनः पुनः हा तादृशी स्थितिः साक्षात्करणीया भवति । एतस्यां स्थितौ मनुष्यस्य स्वभावस्य दोषात् स्वबोधस्य दोषः अधिकः इति । A वक्तुम् उचितम् । यतः बोधेन स्वभावपरिवर्तनं शक्यम् एव । मनुष्यः यदा स्वस्य । विचारान् स्वस्य वचनानि स्वस्य दृष्टिं एव च कदाग्रहेण विलग्नः वर्तते अन्यान् च । प्रति आदरेण समानत्वेन औदार्येण च न व्यवहरति तदा यत् जायते तदेव अस्ति ६७ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy