________________
2ब्रह्म इति योगविदः वदन्ति ।
किं चाऽन्यद् योगतः स्थैर्य, धैर्यं श्रद्धा च जायते । मैत्री जनप्रियत्वं च, प्रतिभं तत्त्वभासनम् ॥५२॥ विनिवृत्ताग्रहत्वं च, तथा द्वन्द्वसहिष्णुता । तदभावश्च लाभश्च, बाह्यानां कालसङ्गतः ॥५३॥ धृतिः क्षमा सदाचारो, योगवृद्धिः शुभोदया । आदेयता गुरुत्वं च, शमसौख्यमनुत्तम् ॥५४॥ योगस्यैतत्फलं मुख्य-मैकान्तिकमनुत्तरम् ।
आत्यन्तिकं परं ब्रह्म, योगविनिरुदाहृतम् ॥५०६॥
अतः एव च विद्वत्ताफलकाङ्क्षिभिः बुद्धिमद्भिः जनैः एषा सद्गोचरादिसंशुद्धिः आलोचनीया । तदनु च एषा यदि योग्या प्रतिभासेत तर्हि स्वीकरणीया अपि । अर्थात् योगमार्गे श्रद्धा अपि कर्तव्या, आचरणम् अपि कर्तव्यम् । यतः सद्योगस्य अभ्यासः एव विद्वत्तायाः फलम् अस्ति, न अन्यत् किम् अपि । योगाभ्यासं विना तु शास्त्राणि अपि संसाररूपाणि एव इति निर्मलमतीनां शास्त्रविदाम् आशयः । यथा सज्ज्ञानरहितानां मूढात्मनां कृते पुत्रपुत्र्यादिसंसारः भवति तथा सद्योगरहितानां विदुषां कृते अपि शास्त्राणि एव संसाररूपाणि सन्ति । अतः एव च पण्डितजनैः योगमार्गेण यतितव्यम् ।
सद्गोचरादिसंशुद्धि-रेषाऽऽलोच्येह धीधनैः । साध्वी चेत्प्रतिपत्तव्या, विद्वत्ताफलकाक्षिभिः ॥५०७॥ विद्वत्तायाः फलं नाऽन्यत्, सद्योगाभ्यासतः परम् । तथा च शास्त्रसंसार, उक्तो विमलबुद्धिभिः ॥५०८॥ पुत्रदारादिसंसारः, पुंसां सम्मूढचेतसाम् । विदुषां शास्त्रसंसार:, सद्योगरहितात्मनाम् ॥५०९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org