SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ स्वाध्याय नमि-प्रव्रज्या ole Cool LaLaLALALALALLA (नमिराजर्षेः इन्द्रेण सह संवादः) मुनिकल्याणकीर्तिविजयः पुरा हि शशास मिथिलां नमिः नाम नृपतिः । एकान्तेन धर्मप्रियः प्रजाहितः - पराक्रमी महादानी च स आसीत् । अतः सर्वाः प्रजाः तस्मै पूर्णतया स्निह्यति स्म । HD तथा चौराः अनीतिकारिणः च ततः पूर्णरूपेण बिभ्यति स्म । सः एकवारं सायङ्काले गवाक्षे स्थितः सर्वतः विलोकयन् आसीत् । तावता तस्य दृष्टिः व्योम्नि पतिता । तत्रत्यं दृश्यं पश्यन् स स्तब्धः इव मूर्त्तः इव निर्निमेषनयनः बभूव । अहो ! कुतस्त्याः एते आकाराः ॥ कीदृशाः आकर्षकाः मनोमोहकाः च !! अवर्णनीया वर्णपरम्परा एतेषाम् ! अचिन्त्या च रमणीयता ! चेतोहरा च चारुता ! ननु कः खलु जीमूतकन्दुकैः ईदृशीं क्रीडां करोति ? धन्यवादाः तस्य, धन्यम्मन्यः च अहं - येन जीवनसारभूतं दृष्टम् एतत् रामणीयकम् । अथ एवं सुषमापीयूषगण्डूषान् आकण्ठं पिबतः तस्य प्रपश्यतः एव अकस्मात् 2 उच्चैः वातः महावातः नभोमण्डले व्याप्तान् तान् अभ्रखण्डान् स्वेन सह सुदूरं नीतवान् । गगनं केवलं निराकारं निरञ्जनं नीरागं च शिष्टं तत्र । एतद् दृष्ट्वा स चित्ते चकितः मनसि विस्मतः हृदये च स्तब्धः अभवत् । "अहो खलु अनित्यता पदार्थानां ! तरलता विषयाणां ! क्षणभङ्गता भावानां ! अनित्यता सम्पदाम् !! किं एतत्पर्यवसानः एव संसारः ? किं सर्वम् अपि अत्र इन्द्रजालप्रतिच्छायम् ? तर्हि नित्यं किम् ? शाश्वतं किम् ? अनश्वरं किम् ? किञ्चित् तु भवितव्यम् एव । तद - एव खलु प्राप्तव्यं मया !" इत्यादि चिन्तयन् सः वैराग्यभावनाभावितान्तःकरण: उल्लसिताभ्यन्तरविवेकः विषयविनिवृत्तचेताः तदा एव गृहत्यागं निर्णीतवान् । स्वज्येष्ठपुत्रं - राज्ये अभिषिच्य च सद्यः एव सपुरजनां सान्तःपुरां सानीकिनी च मिथिला नगरी त्यक्त्वा अभिनिष्क्रान्तः सः एकान्तेन प्रव्रज्याम् अधिष्ठितवान् ।। ISROIEDEREDIENTERNETREATMENTERTIENT DIVOIV ६४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy