________________
अथ च प्रव्रजति तस्मिन् नमिनृपतौ तं प्रति सर्वथा समर्पिताः बद्धादराः च प्रजा: अत्यन्तं दुःखिताः अभवन् । सर्वत्र च रोदनाक्रन्दनविलापानां करुणशब्दाः श्रूयन्ते स्म । एतेन सर्वः अपि नगरपरिसरः कोलाहलमयः सञ्जातः इव ।
इतः च, एतस्मिन् अवसरे स्वर्गमध्ये सौधर्मदेवलोकाधिपेन शक्रेण स्वीयदिव्यज्ञानप्रयोगेण ज्ञातम् एतत्-यत्-नमिः राजा प्रव्रज्यायै अभ्युत्थितः इति । अत: सः तस्य परीक्षार्थं ब्राह्मणवेषं धारयित्वा तत्सम्मुखम् उपस्थितः ।
तदात्वे तयोः द्वयोः मध्ये यः संवादः प्रचलितः सः अतीवरोचकत्वात् अत्र
प्रस्तुतः ॥
इन्द्रः
नमिः
इन्द्रः
नमिः
Jain Education International
भोः ! किमर्थम् अद्य मिथिलायाः प्रासादेषु गृहेषु च कोलाहलसङ्कुलाः दारुणाः च आक्रन्दनशब्दाः श्रूयन्ते ?
भोः ! मिथिलायाम् एकः महान् वृक्षः आसीत् । यः बृहत्काय: शीतलच्छायः पत्रपुष्पफलोपेतः अत्यन्तं गुणकारी च आसीत् । तथा तन्निश्रया बहवः पक्षिसर्प- चिक्रोडादयः प्राणिनः जीवन्तः आसन् । अद्य महावातेन स वृक्ष: समूलम् उत्पाट्य विनाशितः । एतेन ते सर्वे अपि जन्तुजाता: अशरणाः निराधारा: च सञ्जाताः । अतः तद्दुःखेन क्रन्दमानानां तेषां करुणशब्दाः एते श्रूयन्ते । किं च तत्र न किम् अपि चिन्ताकारणम् । यतः प्राप्ते अन्यस्मिन् आश्रये ते सर्वे अपि प्राणिनः शान्ताः सुखिनः च भविष्यन्ति ।
भवतु । किन्तु भगवन् ! मिथिलानगरम् अग्निज्वालाभिः दह्यमानम् अस्ति । महावातेन च ताः ज्वाला: भवतः अन्तःपुरं प्रासादं च ज्वालयन्त्यः सन्ति । तत् सर्वं भवान् जानन् अपि किमर्थम् इह एव तिष्ठति ? तत्र गत्वा अग्नेः विध्यापनादि भवतः कर्तव्यं खलु ?
भोः ! अहं हि सर्वथा अकिञ्चनः अस्मि तत: च सुखेन वसामि जीवामि च । किञ्च, मिथिलायां दह्यमानायां मम तु किञ्चन अपि न दहति । यत:, यत् मामकीनम् अस्ति तत् तु न कदा अपि दहति, यत् च दहति तत् तु मम नास्ति एव । अथ च त्यक्तपुत्रकलत्रस्य सर्वथा निर्व्यापारस्य भिक्षोः
६५
For Private & Personal Use Only
www.jainelibrary.org