________________
संयोगयोग्यताभावो, यदिहाऽऽत्मतदन्ययोः ।
कृतो न जातु संयोगो, भूयो नैवं भवस्ततः ॥४९७॥ योगफलम् -
सम्यग्योगः उभयलोकहिताय भवति । अत्र दर्शितानि ऐहलौकिकानि फलानि तु योगमार्गप्रवृत्तानाम् आत्मनां कृते स्वकीयः मार्गः समीचीनः न वा इति निश्चयार्थम् अत्यन्तम् उपयोगीनि सन्ति ।
योगपथपथिकानां योगसाधनया के के लाभाः भवन्ति इत्यत्र दर्शयन्ति । "१. स्थिरता - प्रतिज्ञातस्य निर्वाहे स्थैर्यम् । २. धैर्यम् - आपत्तौ अपि अविचलितस्वभावः । ३. श्रद्धा - सत्यमार्गं प्रति दृढा रुचिः । ४. मैत्री - सर्वजीवेषु हितचिन्तनरूप: मित्रभावः । ५. जनप्रियत्वम् - शिष्टलोकानां स्नेहः । ६. प्रातिभतत्त्वभासनम् - स्वकीयया साहजिक्या प्रतिभया जीवादितत्त्वानाम् अवलोकनम् । ७. विनिवृत्ताग्रहत्वम् - अनुचिताभिनिवेशस्य अभावः । ८. द्वन्द्वसहिष्णुता - कर्मोदयेन प्राप्तानाम् इष्टानिष्टविषयाणां वियोगसंयोगरूपाणां द्वन्द्वानां सम्यक् सहनम् । ९. द्वन्द्वविनाशःद्वन्द्वानां यानि निमित्तानि तेषां शक्तीनां शुद्धयोगेन नाशः सञ्जाते सति तेषां द्वन्द्वानाम् अभावः । १०. कालोचितबाह्यलाभः - समाधेः स्थिरतायां निमित्तभूताः जीवननिर्वाहादयः कालोचिताः लाभाः । ११. शुभोदया धृतिः - जीवननिर्वाहिकासु सामग्रीषु सन्तोषः, अधिकप्राप्तेः लालसायाः अभावः च । १२. शुभोदया क्षमा - सत्यासत्यस्य श्रवणमात्रेण एव उत्तेजितं भूत्वा आविचार्य एव क्रोधादीनाम् आलम्बनेन आत्मनि जायमानायाः विक्रियायाः रोधनम् । १३. सदाचारः - सर्वेषाम् उपकारकारिणी प्रियवचनरूपा अकृत्रिमोचितस्नेहादिरूपा सज्जनानां चेष्टा । १४. योगवृद्धिः - मुक्तेः बीजभूतानां सम्यग्दर्शनादीनाम् उत्कर्षः । १५. आदेयता - अन्यैः आदरणीयानां वचनानां स्वामित्वम् । १६. गुरुत्वम् - गौरवम् । १७. अनुत्तरशमसौख्यम् - कषायाणां मन्दत्वे सति उद्भूतं प्रशमसुखम् । एतत् च बाह्यपदार्थजन्येभ्य: विषयादिसुखेभ्यः अतिशायि भवति" इति । एतावन्तः ऐहिकलाभाः भवन्ति योगसाधनया ।
योगस्य च मुख्यम् एकान्तिकम् आत्यन्तिकम् अनुत्तरं च फलम् अस्ति परं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org