________________
विद्यते । यदा च सर्वासाम् अपि वृत्तीनां तद्वीजरूपाणां च औदारिकादिशरीराणां सर्वथा अत्यन्तं च उच्छेदः भवति तदा द्वितीयः असम्प्रज्ञातः समाधिः भवति ।
अत्र तात्पर्यं तु एतत् यत् भिन्नभिन्नदर्शनकाराणां शास्त्रेषु नामभेदैः अनेके समाधयः वणिताः सन्ति । यथा- धर्ममेघः, अमृतात्मा, भवशत्रुः, शिवोदयः, सत्त्वानन्दःइत्यादयः । किन्तु एतेषां सर्वेषाम् अपि अध्यात्मादियोगेषु समावेशः भवितुं शक्यते । यतः योगशब्दस्य अर्थः तु सर्वत्र सङ्गतिम् अङ्गति । योगस्य च अनेकाः अवस्थाः सन्ति । अतः तत्तदवस्थाम् अपेक्ष्य तस्य तस्य योगस्य अध्यात्मादियोगेषु अन्तर्भावः भवति एव।
समाधिरेष एवाऽन्यैः, सम्प्रज्ञातोऽभिधीयते । सम्यकप्रकर्षरूपेण, वृत्त्यर्थज्ञानतस्तथा ॥४१९॥ एवमासाद्य चरम, जन्माऽजन्मत्वकारणम् । श्रेणिमाप्य ततः क्षिप्रं, केवलं लभते क्रमात् ॥४२०॥ असम्प्रज्ञात एषोऽपि, समाधिर्गीयते परैः । निरुद्धाशेषवृत्त्यादि-तत्स्वरूपानुवेधतः ॥४२१॥ धर्ममेघोऽमृतात्मा च, भवशत्रुशिवोदयः ।
सत्त्वानन्दः परश्चेति, योज्योऽचैवाऽर्थयोगतः ॥४२२॥ मुक्तिः तु योगस्य एव अन्यावस्थारूपा अस्ति । प्रथमं समाधियोगः सिद्धः भवति, तदनु च मुक्तियोगः । तथा तथा कर्मक्षयार्थं यः योगः प्रवर्तते सः समाधिः इति उच्यते । यः च निष्ठाप्राप्तः योगः अस्ति अर्थात् कर्मक्षयस्य समाप्तिं प्राप्तः यः योगः अस्ति तम् एव योगमार्गज्ञा: मोक्षम् इति कथयन्ति । यतः यदा समाधिः पूर्णतां प्राप्नोति तदा तेन समाधिना आत्मनः कर्मणः च परस्परसंयोगस्य योग्यतायाः अभावः भवति । योग्यतायाः अभावात् च पुनः तेषां संयोगः न भवति एव । ततः च संसारः अपि न अवशिष्यते। अर्थात् संसाराभावः भवति ।।
तथा तथा क्रियाविष्टः, समाधिरभिधीयते । निष्ठाप्राप्तस्तु योग -मुक्तिरेष उदाहृतः ॥४९६॥
६१ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org