________________
यथावत्-यत् यादृशम् अस्ति तादृशम्, प्रकर्षः तु सवितर्कनिश्चयरूपः । अत्र वितर्कः नाम श्रुतं शास्त्रं वा, तेन सहितः सवितर्कः । तन्नाम शास्त्रानुसारेण यस्य स्वरूपस्य निश्चयः जातः तादृशस्य वृत्त्यर्थस्य ज्ञानं सम्प्रज्ञातः उच्यते । वृत्तिः नाम नरनारकादिपर्यायाः, अर्थः नाम द्वीप-समुद्र-पर्वतादिपदार्थाः, तेषां ज्ञानं वृत्त्यर्थज्ञानम् । एतादृशं ज्ञानम् अध्यात्मादिषु चतुर्षु अपि योगेषु भवति । अतः ते सम्प्रज्ञातसमाधित्वेन वक्तुं शक्यते ।
पातञ्जलयोगदर्शने अपि सम्प्रज्ञातसमाधिः एवंरूपः वर्णितः अस्ति-"वितर्कविचारा-नन्दास्मितानुगमात् सम्प्रज्ञातः (१/१७)" - आ स्थूलपदार्थेभ्यः सूक्ष्मसूक्ष्मतरपदार्थविषयकं यत् अनुगतचिन्तनं स वितर्कादिचतुर्भेदः सम्प्रज्ञातः समाधिः इति उच्यते" इति ।
कैवल्यप्राप्तौ कारणभूतस्य शुक्लध्यानस्य प्रथमौ द्वौ भेदौ अपि सम्प्रज्ञातसमाधिस्वरूपौ एव स्तः । यतः तत्र अपि वृत्त्यर्थस्य सम्यग्ज्ञानं भवति इति महोपाध्यायश्रीयशोविजयमहाराजः पातञ्जलयोगसूत्रस्य - १/१७-१८ इति सूत्रद्वयस्यटीकायां कथयति - "तत्र पृथक्त्ववितर्कसविचारैकत्ववितर्काविचाराख्यशुक्लध्यानभेदद्वये सम्प्रज्ञातः समाधिः, वृत्त्यर्थानां सम्यग्ज्ञानात्" इति ।
___ अनेन समाधिना समाहितः सन् आत्मा अजन्मत्वस्य कारणरूपं जन्म प्राप्नोति । शीघ्रं च केवलज्ञानप्राप्तेः पूर्वाम् आत्मनः वर्धमानचित्तनिरोधावस्थास्वरूपां च क्षपकश्रेणिम् आरोहति । तदनु च केवलज्ञानम् अपि प्राप्नोति । एनां कैवल्यस्वरूपाम् अवस्थाम् एव अन्ये दर्शनकाराः असम्प्रज्ञातसमाधित्वेन वर्णयन्ति । अस्मिन् च आत्मा पूर्णतया समाधिस्वरूपः भवति । अतः च वृत्त्यर्थानां चिन्तनस्य अपि अभावः भवति । ततः एव च सूक्ष्मम् अपि मानसिकं विज्ञानं तत्र न विद्यते । एषः एव च वृत्तिसंक्षयः योगभेदः अस्ति ।
अत्र द्विधा असम्प्रज्ञातः योगः भवति । एकः सयोगिकेवलिकालभावी अन्यः च अयोगिकेवलिकालभावी । यदा विकल्पज्ञानरूपायाः मनोवृत्तेः तथा ज्ञानावरणीयादीनाम् उदयरूपस्य तस्याः बीजस्य सर्वथा निरोधात् केवलज्ञानप्राप्तिः भवति तदा प्रथमः असम्प्रज्ञातः समाधिः भवति । तत्काले च शरीरस्य सद्भावात् परिस्पन्दरूपा वृत्तिः
६०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org