________________
Hansar
"आत्मा अस्ति । आत्मनः भिन्नं कर्म अपि अस्ति । आत्मनः कर्मणां च वययपिण्डसदृशः सम्बन्धः अपि अस्ति । तादृश सम्बन्धः अपि सहेतुकः एव अस्ति, न निर्हेतुकः । अनेन सम्बन्धेन शुभाशुभं फलम् अपि भवति । एषां कर्मणाम् आत्मना सह वियोगः अपि भवति एव । एषः वियोगः अपि हेतुयोगेन एव भवति न स्वतः । एतत् सर्वम् अपि आत्मनः कर्मणां च तथास्वभावत्वात् एव सङ्घटते, न अन्यथा । यदि तथास्वभावः न स्वीक्रियते तर्हि संयोग-वियोग-शुभाशुभफलादिपरिणामाः न उत्पद्यन्ते । एतादृक्परिणामाभावे च पुरुषार्थः अपि सफलः न स्यात् । अतः एव तथास्वभावस्य स्वीकारे एव योगमार्गादिषु कृतः पुरुषार्थः सफल भवति । अन्यथा पुरुषार्थः न्यायसङ्गतिम् अगच्छन्, भवन् अपि प्रशस्तः न गण्यते । यथा, मुद्गकङ्कटुकेषु सिद्धेः स्वभावाभावः अस्ति, एवं सन् अपि यः तत्र पुरुषार्थं करोति तस्य तादृशः पुरुषार्थः प्रशस्यः अपि न भवति, आदरणीयः अपि न भवति । तथैव यदि आत्मादीनां तादृशः स्वभावः न स्यात् तर्हि तस्य मुक्त्यर्थं योगमार्गेण कृतः पुरुषार्थः अपि अज्ञानजन्यत्वात् निष्फलत्वात् । च प्रशस्यः न भवति । अतः च एतादृशस्वभावस्वीकारे एव सर्वं समञ्जसं भवति ।" - एतेन एतादृशेन च सतर्कचिन्तनेन परिशीलनेन च योगमार्गस्य सम्यग्बोधः भवति । स्वयं च यत् आचरति तत् भावयोगः अस्ति न वा इत्यस्य निश्चयः अपि भवति ।
आगमेनाऽनुमानेन, ध्यानाभ्यासरसेन च । विधा प्रकल्पयन्प्रज्ञां, लभते योगमुत्तमम् ॥१२॥ आत्मा कर्माणि तद्योगः, सहेतुरखिलस्तथा । फलं द्विधा वियोगश्व, सर्वं तत्स्वभावतः ॥४१३॥ अस्मिन् पुरुषकारोऽपि, सत्येव सफलो भवेत् ।
अन्यथा न्यायवैगुण्यात्, भवन्नपि न शस्यते ॥४१४॥ सर्वयोगानां समन्वयः -
___एतान् एव अध्यात्मादियोगान् अन्ये दर्शनकाराः सम्प्रज्ञातसमाधित्वेन असम्प्रज्ञातसमाधित्वेन च अभिदधति ।।
सम्प्रज्ञात: नाम सम्यक्तया प्रकर्षेण च रूपेण वृत्त्यर्थस्य ज्ञानम् । सम्यङ् नाम
ded
Jain Education International
५९ For Private & Personal Use Only
www.jainelibrary.org