________________
ANNA
सन्तोषः । बाह्यपदार्थानां परिस्थितीनां वा आनुकूल्ये प्रातिकूल्ये च लालसायाः उद्वेगस्य च अभावः नाम सन्तोषः । केवलम् आत्मरमणता एव तत्र विद्यते । सन्तोषाभावे चित्तं सततं विक्षिप्तं वर्तते यत् च एकाग्रतायां बाधकम् अस्ति । सन्तोषात् अनु तत्त्वदर्शनम् अस्ति । 'योगः एव परमार्थः' इति समालोचनं नाम तत्त्वदर्शनम् । परमार्थबुद्ध्या यावत् योगनिश्चयः न भवति, न तावत् उत्साहादि जायते । ततः च योगप्रवृत्तिः अपि अन्ततोगत्वा कायिकी चेष्टा वा क्लेशरूपा वा सम्पद्यते । अथ अन्तिमः उपायः अस्ति जनपदत्यागः तन्नाम सांसारिकस्य लौकिकस्य च व्यवहारस्य त्यागः, यतः योगः तु आत्मिकव्यापाररूपः अस्ति । आत्मिकव्यवहारे प्रवृत्तेन आत्मना लौकिकव्यवहारात् दूरेण भवितव्यम् । यतः लोकव्यवहारः तु आत्मिकव्यवहारे बाधकः अस्ति। सातत्यं विना योग: सिद्धः न भवति । लोकव्यवहारे च प्रवृत्तानां तु सातत्यं न सम्भवति । एवं च योगप्रवृत्तिः अपि निष्फला भवति । अतः च जनपदत्यागः कर्तव्यः एव । एभिः षड्भिः उपायैः योगसिद्धिः अवश्यं भवति ।।
उपायोपगमे चाऽस्या, एतदाक्षिप्त एव हि ।। तत्त्वतोऽधिकृतो योग, उत्साहादिस्तथाऽस्य तु ॥४१०॥ उत्साहान्निश्चयाद् धैर्यात्, सन्तोषात् तत्त्वदर्शनात् ।
मुनेर्जनपदत्यागात्, षड्भिोगः प्रसिद्ध्यति ॥४११॥ योगनिश्चयस्य उपायाः -
प्राप्तः योगः भावयोगः अस्ति न वा इत्यस्य निर्णयार्थं त्रीणि साधनानि सन्तिआगमः अनुमानं ध्यानाभ्यासः च इति । आगमः नाम योगं ज्ञापकानि शास्त्राणि । अनुमानं नाम योगस्य यथार्थरूपेण सङ्घटनार्थं तर्कवितर्कादि चिन्तनम् । ध्यानाभ्यासः नाम पुनः पुनः तस्य अभ्यासः ।
आगमन भावयोगस्य निर्णयः श्रद्धया भवति । श्रद्धया जायमानः निर्णय यावत् न बुद्धिगम्यः भवति तावत् योगस्य सम्यग्बोधः न जायते । अतः च अनुमाने बुद्ध्यनुसन्धानेन सद्बोधः जागृतः भवति । एतादृशि बोधे जाते सति तस्य स्वानुभूत्यर्थं पुनः पुनः परिशीलनम् आवश्यकम् । तत् च ध्यानाभ्यासेन भवति ।
wationa
LERS
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org