________________
सिद्ध्यन्तरं न सन्धत्ते, या साऽवश्यं पतत्यतः । तच्छक्त्याऽप्यनुविद्धैव, पातोऽसौ तत्त्वतो मतः ॥२३४॥ सिद्धयन्तराङ्गसंयोगात्, साध्वी चैकान्तिकी भृशम् ।
आत्मादिप्रत्ययोपेता, तदेषा नियमेन तु ॥२३५॥ न ह्युपायान्तरोपेय-मुपायान्तरतोऽपि हि । हाठिकानामपि यत-स्तत्प्रत्ययपरो भवेत् ॥२३६॥ पठितः सिद्धिदूतोऽयं, प्रत्ययो ह्यत एव हि । सिद्धिहस्तावलम्बश्च, तथाऽन्यैर्मुख्ययोगिभिः ॥२३७॥ अपेक्षते ध्रुवं ह्येनं, सद्योगारम्भक स्तु यः ।
नाऽन्यः प्रवर्तमानोऽपि, तत्र दैवनियोगतः ॥२३८॥ योगस्य उपायाः -
किमपि कार्यं कर्तुं तस्य उपायाः भवन्ति । तान् उपायान् आश्रित्य एव कृतं कार्यं सिद्धं भवति । एवमेव च योगमार्गस्य कृते अपि उपायाः सन्ति । तैः एव उपायैः योगस्य सिद्धिः भवति ।
योगप्राप्तेः सामान्यः उपायः अस्ति योग्यता । योग्यतया एव आकृष्य प्रवर्तमानाः अध्यात्मादियोगाः तात्त्विकयोगाः भवन्ति ।
___ योगस्य विशेषोपायाः षड् सन्ति- उत्साहः, निश्चयः, धैर्यम्, सन्तोषः, तत्त्वदर्शनम्, जनपदत्यागः च । एभिः षड्भिः एव योगिनः योगसिद्धिं लभन्ते । तत्र-प्रथमम् उत्साहः आवश्यकः । उत्साहः नाम वीर्योल्लासः । उत्साहं विना प्रारब्धं कार्यं कदाचित् अपूर्णम् तिष्ठति, कदाचित् च अल्पफलम् एव भवति । तदनु च अस्ति निश्चयः । निश्चयः नाम सङ्कल्पिते कार्य सम्पूर्णः एकाग्रभावः । ऐकाग्यरहितः उत्साहः दीर्घं न सन्तिष्ठते । ततः च साफल्यम् अपि प्राप्तुं न शक्यते । तृतीयम् अस्ति धैर्यम् । आपत्तिषु अपि प्रतिज्ञातः अविचलनं नाम धैर्यम् । श्रेयस्करेषु कार्येषु विघ्नप्राचुर्यं भवति एव 'श्रेयांसि बहुविघ्नानि' इति न्यायात् । एवं च विघ्ने सत्यपि ऐकाग्यभङ्गः न स्यात् तदेव वास्तवं धैर्यम् । एतादृशा धैर्येण विना उत्साहः निश्चयः च पङ्ग गण्यते । चतुर्थः उपायः अस्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org