SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ सदनुष्ठानम् आरम्भकः पुरुषः तदनुष्ठानस्य अभिलाषी स्यात् इति आत्मप्रत्ययः, गुरुः अपि तस्मै तथाविधम् एव उपदेशं दद्यात् इति गुरुप्रत्ययः, तथा अनुष्ठानस्य आरम्भकाले मङ्गलवाद्य-शङ्खादीनां ध्वन्यादीनि मङ्गलानि रचितानि स्युः इति लिङ्गप्रत्ययः । एतत् सर्वम् अपि सहजम् एव स्यात् । एतेषां प्रत्ययानां सद्भावे सम्पूर्णसिद्धिः प्राप्यते । अर्थात् एषः त्रिविधः प्रत्ययः तु सम्पूर्णसिद्धेः साधनम् अस्ति । या सिद्धिः अन्यसिद्धेः अवन्ध्यबीजरूपा भवति सा एव ऐकान्तिकी सिद्धिः इति उच्यते । या च सिद्धिः अन्यस्याः सिद्धेः कारणं न भवति सा तु पातशक्तियुक्तत्वात् अवश्यं पतति । अतः च पातशक्तियुक्ता तादृशी सिद्धिः अपि तत्त्वतस्तु पतनम् एव, न सिद्धिः । सिद्धयन्तरस्य हेतूनां संयोगात् सिद्धिः पातरहिता ऐकान्तिकी भवति । एतादृशी च ऐकान्तिकी सिद्धिः तु नियमेन आत्मादिप्रत्यययुक्ता भवति । यतः एते प्रत्ययाः एव अन्यसिद्धीनाम् अवन्ध्यकारणरूपाः सन्ति । अतः एव च योगमार्गे एतादृश्याः एकान्तिक्याः सिद्धेः अभिलाषुकैः आत्मादिप्रत्ययेषु तत्परैः भवितव्यम् । यत् वस्तु येन उपायेन साध्यं स्यात् तत् अन्यैः उपायैः हठात् अपि सिद्धं न भवति । यथा घटस्य उपादानकारणेन पटस्य उत्पत्तिः न भवति तथा आत्मादिप्रत्ययरहितया प्रवृत्त्या योगे ऐकान्तिकी सिद्धिः न भवति । अन्ये योगिनः अपि एतान् आत्मादिप्रत्ययान् सिद्धिदूतान् सिद्धिगतिप्राप्त्यर्थं च हस्तावलम्बनानि इव वर्णयन्ति । अतः चैव सानुबन्धयोगारम्भकः जनः आत्मादिप्रत्ययं निश्चयेन अपेक्षते एव । अर्थात् आत्मादिप्रत्ययम् अवलम्बते एव । अन्ये ये तत्त्वज्ञानरहिततया केवलं कर्मवशेन विषयशुद्ध स्वरूपशुद्धे वा अनुष्ठाने प्रवर्तन्ते ते न एतान् आलम्बन्ते । तथाऽऽत्मगुणलिङ्गानि, प्रत्ययस्त्रिविधो मतः । सर्वत्र सदनुष्ठाने, योगमार्गे विशेषतः ॥२३१॥ आत्मा तदभिलाषी स्याद्, गुरुराह तदेव तु । तल्लिङ्गोपनिपातश्च, सम्पूर्णं सिद्धिसाधनम् ॥२३२॥ सिद्ध्यन्तरस्य सदीजं, या सा सिद्धिरिहोच्यते । ऐकान्तिक्यन्यथा नैव, पातशक्त्यनुवेधतः ॥२३३॥ Jain Education International ५६ For Private & Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy