________________
[धनम् उपहरति ।] 6 न्यायमूर्ति (निराकुर्वन्) मा मा एवम् । भोः ! न अहं निर्धनः । विपुलं धनं मम
विद्यते । बेस्सानियः तथा अपि यत् किञ्चित् यथाशक्ति उपायनं भक्त' समर्पयितुकामः अहं
प्रभो! [न्यायमूर्तिः तस्य बेस्सानियस्य प्रसारितहस्ताङ्गलीनिबद्धां मुद्रिकां दृष्ट्वा ताम् एव मुद्रिकाम् अवमुच्य जिघृक्षति । तेन चकित: बेस्सानियः झटिति स्वहस्तं प्रतिसंहरन्] मा एवं भोः ! कृपया क्षम्यताम् । सा इयं मुद्रिका अत्यल्पीयसी । ततः
अपि अधिकमूल्यम् उपायनं भवते उपपादयिष्यामि । न्यायमूर्तिः भोः ! न अहम् अन्यम् उपायनम् ईहे । यदि नैजां कृतज्ञतां मयि सूचयितुम्
अभिलषसि तर्हि एतद् एव उपायनम् उपहर । बेस्सानियः (अनन्यगतिकतया) गृहाण भोः ! अभीष्टम् उपायनम् । (मुद्रिकां ददाति ।)
(बेस्सानियः अण्टोनियः च प्रतिनिवर्तेते ।)
_ षष्ठं दृश्यम्
[बेस्सानियः स्ववध्वाः पोर्षियायाः विरहेन आकुल: यावच्छीघ्रं तां द्रष्टुकामः अण्टोनियेन सह स्वगृहं प्रविशति । पोर्षिया गृहद्वारि एव तौ अभिनन्द्य अन्तर्गृहं प्रवेशयति । तावता पत्युः मुद्रिकाविहीनां रिक्ताम् अङ्गुली निपुणं वीक्ष्य-] पोर्षिया नाथ ! क्व सा मुद्रिका या विवाहसमये ते मया उपहृता आसीत् ? क्व तद्
अमूल्यम् अङ्गुलीयकं अस्मत्प्रियदाम्पत्यस्मारकम् ?
[दिग्भ्रान्तं निरुत्तरं यथार्थं च वदितुम् अशक्तं मित्रं बेस्सानियं परिलक्ष्य] अण्टोनियः श्रीमति ! अन्यथा मा भावयेथाः । अद्य न्यायालये आवयोः बहूपकारिणे
न्यायवादिने तद् अङ्गलीयकं बेस्सानियेन उपहारीकृतम् अस्ति । तद् अल्पम् ॐ
१०९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org