SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ अपराधं तस्य क्षन्तुम् अर्हसि । पोर्षिया (अङ्गुलीयकं पत्ये प्रयच्छन्ती अण्टोनियम् उद्दिश्य - ) इदम् अङ्गुलीयकं तव मित्राय प्रयच्छ । तथा एनत् प्रणष्टाद् अङ्गुलीयकात् अधिकं सावधानतया रक्षणीयम् इति तं सुष्ठु प्रबोधय । [बेस्सानिय: अङ्गुलीयकं निपुणं वीक्ष्य 'अहो ! एतत् तु तद् एव यत् न्यायालये न्यायवादिने उपहारीकृतम्' इति प्रत्यभिज्ञाय च विस्मयापन्नः पोषियायाः मुखं निरीक्षते । पोर्षिया तं समादधती -] पोर्षिया पश्य पश्य नाथ ! इदं पत्रं, यस्मिन् अहं अण्टोनिय-शैलाकप्रकरणे न्यायवादित्वेन नियुक्ता इति निर्दिष्टम् अस्ति । Jain Education International - बेस्सानियः (साश्चर्यम्) अहो ! तत्र न्यायालये उपस्थिता मन्मित्रस्य प्राणदात्री सङ्कटविमोचयित्री, तथा माम् अपि विश्वासघातमहापातकात् रक्षित्री छद्मवेषधृतवती सा त्वम् एव वा ? नूनं सम्भ्रान्तः अस्मि । अहो ! वेषधारणकौशल्यं समयस्फूर्तिसामर्थ्यं च स्त्रीणाम् !! [ हर्षपुलकिता: सर्वे निष्क्रामन्ति । ] " धनेन दानवः दयया मानव:" इति भावरूपकं समाप्तम् ॥ सर्वेऽपि सुखिन: सन्तु सर्वे सन्तु निरामयाः । लोकोऽयं भयमुक्तोऽस्तु सर्वं भवतु मङ्गलम् ॥ दुःखात्मकेषु विषयेषु सुखाभिमानः सौख्यात्मकेषु नियमादिषु दुःखबुद्धिः । उत्कीर्णवर्णपदपङ्क्तिरिवाऽन्यरूपा सारूप्यमेति विपरीतगतिप्रयोगात् । (शीलाङ्काचार्यकृतायाम्-आचाराङ्गवृत्तौ) ११० For Private & Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy