________________
जिनप्रणीतवचनानि आश्रित्य मैत्री - प्रमोद - करुणा-माध्यस्थ्यभावप्रधानं यत् जीवादितत्त्वानां चिन्तनं तत् अध्यात्मम् इति अध्यात्मविदः वदन्ति ।
एतेन अध्यात्मयोगेन कर्मणां क्षयः भवति । सत्त्वं नाम वीर्योत्कर्ष:, शीलं नाम चित्तस्य समाधिः, ज्ञानं नाम वस्तूनां यथार्थावबोधः - इति शाश्वतानाम् - अप्रतिपातिनाम् एतत्त्रयाणां प्राप्तिः अपि एतेन अध्यात्मयोगेन भवति । स्वानुभवसिद्धम् अमृतम् अपि एतत् अध्यात्मम् एव अस्ति ।
औचित्याद् व्रतयुक्तस्य वचनात् तत्त्वचिन्तनम् । मैत्र्यादिसारमत्यन्त-मध्यात्मं तद्विदो विदुः ॥३५८॥ अतः पापक्षयः सत्त्वं, शीलं ज्ञानं च शाश्वतम् । तथाऽनुभवसंसिद्ध-ममृतं हृद एव तु ॥ ३५९॥
अध्यात्मस्य विशेषवर्णनम् -
औचित्यादियुक्तस्य आत्मन: मैत्र्यादिगर्भितं तत्त्वचिन्तनम् अध्यात्मम्- इति पूर्वम् उक्तम् । एतत् अध्यात्मं द्रव्य-क्षेत्र - काल - भावाद्यवस्थाभेदैः अनेकप्रकारकम् अस्ति । तत्र च य: आदिधार्मिकः जीवः तम् आश्रित्य जपः एव अध्यात्मम् । सन्मन्त्रविषयकः जपः देवतास्तवरूपः अस्ति । यथा मन्त्रविशेषात् स्थावर - जङ्गमादिभेदभिन्नानां विषाणाम् अपहारः भवति तथैव एतेन मन्त्रजपेन अपि पापपरिहारः भवति ।
Jain Education International
तत्त्वचिन्तनमध्यात्म- मौचित्यादियुतस्य तु । उक्तं विचित्रमेतच्च तथावस्थादिभेदतः ॥३८०॥ आदिकर्मकमाश्रित्य जपो ह्यध्यात्ममुच्यते । देवतानुग्रहाङ्गत्वा-दतोऽयमभिधीयते ॥ ३८१ ॥
जपः सन्मन्त्रविषयः, स चोक्तो देवतास्तवः । दृष्टः पापापहारोऽस्माद्, विषापहरणं यथा ॥ ३८२॥
मतान्तरं दर्शयति
स्वयोग्यतायाः सम्यक् विचारणम्, तदनु च धर्मक्रियायां प्रवृत्तिः, आत्मनिरीक्षणं
४२
For Private & Personal Use Only
www.jainelibrary.org