SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ १ च इति त्रितयम् अध्यात्मम् इति अन्ये योगशास्त्रकाराः वदन्ति । तथा हि१. त्रिभिः प्रकारैः स्वयोग्यतायाः आलोचनं भवति-योगप्रवृत्या, जनवादात्, आगमानु सारिनिमित्तैः च । तत्र योगप्रवृत्या नाम मनोवाक्कायरूपाणां योगानां सम्यक् प्रवर्तनेन, जनवादात् नाम लोकानां स्वं प्रति यः निर्मलः भावः आदरः वा तेन, आगमानुसारिनिमित्तैः च नाम पशुपक्ष्यादिशब्दरूपाः शकुनाः, तैः-एवं च त्रिभिः प्रकारैः स्वयोग्यतायाः यत् सम्यक् परीक्षणं तत् अध्यात्मम् । २. एवं च सम्यग्रीत्या स्वयोग्यताम् आलोच्य धर्मे प्रवर्तनं हि निश्चयेन इष्टफलप्रदायकं भवति । यतः स्वकीयं योग्यत्वायोग्यत्वम् आलोचयति आत्मनि भावस्य प्राधान्यात् धर्मे तस्य दृढानुरागः भवति । धर्मे यस्य प्रतिबन्धः नाऽस्ति सः औदयिकभावैःतन्नाम कर्मणाम् उदयेन प्राप्यमाणैः पदार्थैः परिस्थितिभिः वा-उपहतचित्तत्वात् न स्वौचित्यम् आलोचयति । स्वयोग्यतां विना धर्मे प्रवर्तनं न कदाऽपि सफलं भवति । अतः यः योगभङ्गभयेन युक्तः स्यात् श्रद्धातिशयात् च योगसिद्ध्यर्थं । दृढम् उत्सुकः स्यात् तथा परिणामालोचनपूर्वकम् एव च कार्ये प्रवर्तमानः स्यात् - एतादृशः बुद्धिमान् आत्मा शुद्धयुक्त्या स्वयोग्यतां सम्यक् विचारयति, तदनु चैव धर्मे प्रवृत्तिं करोति-इत्यपि अध्यात्मम् । अणुव्रत-महाव्रतादिपालनरूपे कार्ये प्रारब्धे सति अशुभकर्मणाम् उदयेन कदाचित् तत्र भङ्गादिरूपं भयम् उपस्थितं भवेत् अपि । तद्भयस्य उपशमार्थम् आत्मनिरीक्षणं कुर्यात् यत्- मया किं किं कृतम् ? किं कृत्यं च अवशिष्टम् ? - इत्यादि । यथा रोगाणां शत्रूणां वा भये उपस्थिते सति चिकित्सायाः दुर्गस्य वा शरणम् अङ्गीक्रियते तथैव यदि चित्तम् उन्मार्गगामि स्यात् तथा च धर्मकृत्ये यदि भङ्गभयम् उपस्थितं स्यात् तर्हि देव-गुर्वादीनां शरणम् एव आश्रयणीयम्, येन दुरितानां क्षयः स्यात्। एवं च कृतम् आत्मनिरीक्षणम् अपि अध्यात्मम् एव । स्वौचित्यालोचनं सम्यक्, ततो धर्मप्रवर्तनम् । आत्मसम्प्रेक्षणं चैव, तदेतदपरे जगुः ॥३८९॥ ३ ४३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy