SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ GANA RAM color RMER योगेभ्यो जनवादाच्च, लिङ्गेभ्योऽथ यथागमम् । स्वौचित्यालोचनं प्राहु-योगमार्गकृतश्रमाः ॥३९०॥ योगः कायादिकर्माणि, जनवादस्तु तत्कथा । शकुनादीनि लिङ्गानि, स्वौचित्यालोचनास्पदम् ॥३९१॥ एकान्तफलदं ज्ञेय-मतो धर्मप्रवर्तनम् । अत्यन्तं भावसारत्वात् - तत्रैव प्रतिबन्धतः ॥३९२॥ तदङ्गादिभयोपेत-स्तत्सिद्धौ चोत्सुको दृढम् । यो धीमानिति सन्न्यायात्, स यदौचित्यमीक्षते ॥३९३॥ आत्मसम्प्रेक्षणं चैव, ज्ञेयमारब्धकर्मणि । पापकर्मोदयादत्र, भयं तदुपशान्तये ॥३९४॥ विस्रोतोगमने न्याय्यं, भयादौ शरणादिवत् । गुर्वाद्याश्रयणं सम्यक्, ततः स्याद् दुरितक्षयः ॥३९५॥ सर्वमेवेदमध्यात्म, कुशलाशयभावतः । औचित्याद्यत्र नियमा-लक्षणं यत्पुरोदितम् ॥३९६॥ मतान्तरं वर्णयति देवादीन् सम्यक् प्रकारेण वन्दनम्, प्रतिक्रमणम्, मैत्र्यादिभावानां च चिन्तनम्एतत् त्रितयम् अध्यात्मम् - इत्यपि केषाञ्चन शास्त्रकाराणां मतम् अस्ति । तत्र १. देवादिवन्दनं - चैत्यवन्दनं नाम स्थान-काल-क्रमादिभिः युक्तः - योग्यस्थानेन योग्यकालेन योग्यक्रमेण च युक्तः सन् एव देवादीनां स्तवनादिकं कुर्यात्, तथा, देवादीनां स्तुत्यर्थम् उच्चार्यमाणेषु शब्देषु एव अवधानयुक्तः स्यात्, अन्येषाम् अनुष्ठानेषु विघ्नः यथा न स्यात् तथैव योग्यस्वरपूर्वकं - मधुरमन्दस्वरपूर्वकम्, श्रद्धासंवेगादिभावभृतहृदयेन, उल्लसद्भावैः च रोमाञ्चितशरीरेण, शुभाशयस्य वृद्धिपूर्वकम्, अवनाम-यथाजातादिभिः मुद्राभिः विशुद्धं देवतादीनां वन्दनं कुर्यात् । २. प्रतिक्रमणं नाम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy