________________
।
अपि मोघम्, कर्मबन्धनस्य कारणं च भवति । यदि कः अपि दानबुद्ध्या मांसिकस्य छुरिकायाः दानं दत्त्वा मनसि तृप्तिम् अनुभवेत् यत् 'मया दानं कृतम्' इति तत् तु असाम्प्रतम् । यतः 'सः हन्ता अग्रे तच्छुरिकया अनेकान् जीवान् हनिष्यति । तत् तु महानर्थकरम् अस्ति, एवं यद् अनर्थकरं तत् कथं दानम् उच्यते ?' इति बोधः तदा जायते यदि चित्ते विवेकयुतं ज्ञानं स्यात् ! वस्तुतः येन धनस्य आसक्तिः क्षयेत्, दानग्राहकं प्रति बहुमानः आदरः च उत्पद्येत, तथा चित्ते कः अपि आशंसाभावः न । भवेत्, तद् एव दानं ज्ञेयम् । उक्तं च -
यत् स्वयमदुःखितं स्यान्न च पदुःख्ने निमित्तभूतमपि ।
केवलमुपग्रहकरं धर्मकृते तद्भवेत् देयम् ॥
अद्य समाजे प्रतिदिनं दानरूपेण कोटीरूप्यकाणां व्ययः भवति । तत् सर्वं निरर्थकम् अस्ति, इति मत्कथनस्य न आशयः । किन्तु विवेकपूतज्ञानस्य अभावात् एवं भवति यत् 'यत्र न अस्ति धनस्य आवश्यकता तत्र विशेषतः दीयते, यत्र च आवश्यकता तत्र न कः अपि ददाति, ततः च समाजस्य कियन्ति कार्याणि अवसीदन्ति, तथा अन्यत्र धनस्य दुर्व्ययः भवति' इति । यदि खलु विवेकपूतज्ञानपूर्वकेण दानं प्रदीयेत तर्हि समाजस्य सङ्घस्य च कानिचिद् अपि कार्याणि न सीदेयुः । तथा च समाजे सङ्के च य: क्लेशः वर्तते सः नश्येत्, एवं सर्वत्र शान्तिः प्रसरेत् । तदा एव वास्तविकरूपेण शासनप्रभावना भवेत् । एवं विवेकान्वितायाः क्रियायाः एव प्राधान्यम् अस्ति ।।
अद्य जनाः उत्कृष्टं तपः कुर्वन्ति । अनेकवर्षपर्यन्तम् आचाम्लम् (रसहीनरुक्षम् आहारं) एकशः आहारं च कुर्वन्ति । केचित् जनाः तु एकोपवासाद् आरभ्य आशीत्युत्तरशतोपवासपर्यन्तं सानन्दं तपः विदधति । एवं विविधं तपः अधुना क्रियते । हन्त ! एतेन तपसा यदि न दुष्टमनोवृत्तिः दुर्बला भवेत्, विकृतिः न हासं प्राप्नुयात्, न च चित्ते समत्वं जायेत प्रत्युत यदि क्रोध-लोभ-अहङ्कार-स्वप्रशंसा-बाह्याडम्बरादिदुर्गुणानां वृद्धिः एव स्यात्, तर्हि तेन तपसा क: लाभ: ? वस्तुत: बाह्यतपसः साधनेन आभ्यन्तरतपसः सिद्धिः साधनीया । तादृशस्य तपसः सिद्धिः विवेकयुतस्य ज्ञानस्य द्वारेण एव भवति, न अन्यथा । तथा च तादृशं तपः एव कर्मनिर्जरायाः कारणं भवति ।
these
७५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org