SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Version NE किं च, तेन ज्ञानयुतेन तपसा चित्ते विवेकः सञ्जायते यत्, "मया एतत् तपः कथं कृतम् ? न तु आडम्बरार्थम् अपि तु चितविशुद्ध्यर्थम् आहारसंज्ञां न्यूनीकर्तुम्, समतालाभार्थं च एव कृतम्" इति । ततः तत्तपः एव धर्मरूपम् अस्ति, तदेव च लाभदायि अपि भवति । अद्य प्रभुभक्त्यासक्ताः जनाः विपुलं धनं व्ययीकुर्वन्ति, समयव्ययं च अपि कुर्वन्ति । किन्तु तत्पश्चात् यदि चित्ते मोहः जागृयात्, परिग्रहभावना उत्पद्येत, यत् व्ययीकृतं तस्य पुनः प्राप्त्यर्थम् आकाङ्क्षा उद्भवेत्, अहङ्कारः आगच्छेत्, तर्हि तया भक्त्या किं प्रयोजनम् ? सत्यम्, एतद्भक्तिः केवलं बाह्यधर्मरूपा न तु आत्मोन्नतिविधायिनी वास्तविकधर्मस्वरूपा च । यदि ज्ञानान्विता भक्तिः स्यात् तर्हि सा एव भक्तिः आत्मिकोत्थानस्य कारणं भवेत्, तथा च संसारस्य आसक्ति क्षपयेत् । क्रमशः च धनमूर्छा गतप्रायिका भवेत्, तथा भगवन्तं गुरुं धर्मं च प्रति बहुमानः आदरः च चित्ते संजायेत । अन्यथा भक्तिशब्दः एव तत्र स्यात्, न तु तद्रहस्यम् । तदा च सा भक्तिः संसारोत्तारिणी न भवेत् । __ अद्य समाजे उत्कृष्टधर्मरूपा सर्वविरतिः दीक्षा बहुभिः गृह्यते । जननी-जनकभ्रातृ-भगिनी-गृह-आपण-सर्वसुखसाधन-पदप्रतिष्ठादिकं सर्वम् अपि सन्त्यज्य दीक्षा स्वीक्रियते । किन्तु तत्पश्चात् यदि पूर्वस्नेहिजनानाम् आसक्तिः न अल्पीभवेत्, पूर्वानुभूतसुखं न विस्मर्येत, पूर्वकालीनमानप्रतिष्ठायाः अहङ्कारः सदा चित्ते रमेत, मनसि ईर्ष्या-क्षुद्रताहङ्कारा-सूया महत्त्वाकाङ्क्षा-सहिष्णुतादिकं प्रतिक्षणं प्रादुर्भवेत्, अन्येषां जनानां प्रतिबोधाय एव सर्वदा औत्सुक्यं वर्तेत, भक्तजनानां हितार्थं शिष्यवृद्ध्यर्थं च स्वाचारात् भ्रष्टता भवेत्, एवंरीत्या मनः अतृप्तिवशात् सदा व्याकुलं च भवेत्, तथा बाह्यसंसारं विहाय अतीव विस्तृतं समृद्धिपूर्णम् आभ्यन्तरसंसारं विरचय्य केवलं बाह्याडम्बरे एव मग्नाः । भवेयुः, तर्हि दीक्षया किं प्रयोजनम् ? कः च लाभः ? __ बन्धो ! संयमजीवनस्य वास्तविकाराधना तदा एव भवेत् यदा सा आराधना सज्ज्ञानपूर्विका स्यात् । तस्मिन् काले एव च संयमस्य यथार्थानुभूतिः स्यात् । एतादृशः जीवः "एतद् बाह्यक्रियया आत्मिकलाभः भवति न वा, मया स्वकल्याणार्थम् एव दीक्षा अङ्गीकृता, न तु केवलं परहिताय । ततः मत्संयमजीवनापकारिण्या आत्मिक Lane Raalee ७६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy