SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ गुणोत्कर्षबाधकया च परकल्याणचेष्टया अलम्" इति चिन्तयति । वस्तुतः स्वकल्याणे स्वगुणवृद्धौ स्वस्वभावे च रमणम्, तस्मिन् एव संयमजीवनस्य यथार्थता अस्ति, तदेव श्रेयस्करम् अस्ति । तर्हि एव सत्यरूपेण संसारविसर्जनस्य प्रक्रिया भवेत् । एवं ज्ञानयुतायाः एव दीक्षास्वरूपक्रियायाः माहात्म्यम् अस्ति । एवं शासने ज्ञानस्य अतीव मूल्यम् अस्ति । ज्ञानशून्या सर्वा अपि क्रिया अकिञ्चित्करा आभासिकी आडम्बररूपा च एव ज्ञेया । प्रथमं ज्ञानेन हेय-ज्ञेय - उपादेयस्य विवेक: जायेत, तदनु च या क्रिया क्रियते सा एव क्रियात्वेन व्याख्यायते । सङ्घं शासनं च केन्द्रीकृत्य या का अपि आराधना क्रियते सा एव वस्तुतः क्रिया, अन्यथा तु क्रियायाः व्याजेन प्रपञ्चः एव ज्ञेयः । ततः एतादृशी क्रिया एव धर्मत्वेन निरूपयितुं शक्या । अद्य जैनसमाजे जैनेतरसमाजे च पूर्ववर्णितस्य बाह्यधर्मस्य आडम्बरस्य च एव वृद्धिः दृश्यते, न तु वास्तविकरूपस्य धर्मस्य । अद्य समाजे क्रियायाः उदरे दुष्टावकरः विशेषतः वृद्धिं गतः अस्ति । धर्मे इयत्तायाः माहात्म्यं विस्तृतम् अस्ति । एतेन एवं कृतं, एवं कृतं, एतेन इयत् धनं व्ययीकृतम् । हन्त ! अद्य तु धर्मस्थानेषु धनव्ययेन एव धर्मः भवति, इति स्थितिः वर्तते । ततः यः बहु धनं व्ययीकरोति सः धर्मी इति ख्याप्यते, किन्तु सः तु आभासः एव । तथा अपि इदानीं समाजे बाह्यक्रियायाः एव साम्राज्यं दरीदृश्यते । ततः एव वयं सर्वे अपि सज्ज्ञानक्रियायाः शनै: शनै: अतीव दूरं गच्छन्तः स्मः । कदाचित् तादृश्या बाह्यक्रियया समाजे पूजा - मान-प्रतिष्ठा - प्रशंसादिकं सर्वम् अपि प्राप्यते, किन्तु मूलतः तु तत्सर्वम् आत्मोन्नतौ बाधकम् अस्ति । एवं सज्ज्ञानस्य अभावात् तादृशी धर्मरूपा क्रिया एव प्रेरणादातुः कारकस्य च दुर्गुणपोषकरूपा भवति । ततः एव प्राचुर्येण धर्मक्रियायां सत्याम् अपि सर्वत्र समाजे सङ्खे च क्लेशः असहिष्णुता असूयावृत्तिः ईर्ष्या च वरीवृत्यन्ते । सर्वस्याम् अपि धर्मसंस्थायां पदाकर्षणवृत्तिः अहङ्कारसाम्राज्यं च दरीदृश्यते । अहो ! खलु धर्मस्य व्याजेन एवं वर्तते । 'बाबरी मस्जिद' नाम्ना देशे नैकेषां जनानां हिंसा: भवन्ति । मुस्लिमजनै: 'जेहाद' नाम्ना आतङ्कवादः प्रसारितः । पाश्चात्यजनाः धर्मस्य व्याजेन मायाप्रपञ्चादिकं कुर्वन्ति । एवं Jain Education International ७७ For Private & Personal Use Only pk por www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy