________________
AN
Ramarohi
धर्मस्य व्याजेन सर्वत्र क्लेशः एव प्रसृतः अस्ति । सूक्ष्मदृष्ट्या तन्मूलं निरीक्ष्यते तदा ज्ञायते यत्'ज्ञानस्य नितराम् अभावः एव वर्तते, अपात्रजनानां हस्ते एषः चिन्तामणिरत्नोपमः सर्वोत्तमधर्मः आपतितः अस्ति' । यदि एतज्जनानां चित्ते ज्ञानरूपस्य द्वारस्य उद्घाटनं भवेत् तर्हि स्वतः एव क्लेशः विनश्येत्, तथा च शान्तिः प्रसरेत् ।
एवं ज्ञानं-बोधः एव सर्वस्य मूलम् अस्ति । यथा यदि गृहस्य मूलं दृढं न स्यात् तर्हि तद् उपरि गृहरचना न सम्यक् जायते । कदाचिद् भवेत् तथा अपि भीतिः संभवेद् एव, यत् कदाचिद् अपि नश्येत् । तथा एव ज्ञानरूपं मूलं विना क्रियमाणस्य अपि बाह्यधर्मस्य न मूल्यम्, न कः अपि लाभः । एवं सर्वत्र ज्ञानयुतायाः क्रियायाः एव प्राधान्यम् अस्ति ।
अन्ते ज्ञानशून्यां क्रियां कुर्वतां जनानाम् अनुमोदनं न कुरुत, किन्तु वास्तविकधर्मस्य स्वरूपं बोधयतु । तथा वयं सर्वे अपि यां यां क्रियां कुर्याम, तां क्रियां ज्ञानपूर्विकां कुर्याम । एवम् आत्मिकधर्मोन्नतिः सिद्ध्येत्, इति मे स्पृहा ।
||
Pane
गुणानामेव दौर्जन्याद् , धुरि धुर्यो नियोज्यते । असञ्जातकिणस्कन्धः , सुखं जीवति गौर्गलिः ॥
शीलाङ्काचार्यकृतायाम्- आचाराङ्गवृत्तौ
Jain Education International
७८ For Private Personal Use Only
www.jainelibrary.org