SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ आत्मन् ! अनुभवनिजमनुरूपम्, भावय भवमस्वरूपम् आत्मन् ! ज्ञानमनन्तं दर्शनमेवं, सुखमपि परमं पीनम् । श्रद्धानं क्षयरहितं चरणं, भवतः सकलमनीनम् विंशतितमोऽधिकारः अनुभवस्वरूपम् [ सारंगरागेण गीयते ।] - अक्षयस्थिति जीवनमभिरूपं, रूपं त्वगुरुलघुत्वम् । वीर्यवितरणादिक बलमसमं, पश्यसि किं न लघुत्वम् आदिविरहितोऽनेहा इह ते, जातोऽजातसमानः । केवलपुद्गलपरिचयकरणे, व्यपनीतो गतभानः चरमावर्तप्रवेशानन्तर - मभिरुचितोऽध्वा श्रेयः । करणत्रयकरणाद्विज्ञातं, किं श्रेयः किं प्रेयः ? Jain Education International यथा यथाsपसृतः सम्मोह - श्चरणपरो भवमूलम् । तथा तथा विकसितो निजात्मा, शिवमार्गानुकूलम् समुचितसितसंकल्पबलेन, साध्यः क्षपकारोहः । सकलकर्ममलरहितो भवताद्, न भवेद्यद्भवरोहः समसमीहितदानसमर्थं कुरु गुरुस्तवनमुदारम् । धर्मधुरन्धर यशसोज्ज्वलितं प्राप्तुं हि परपारम् भवपरिपाकवशेन निगोदाद्, बहिरागमनं जातम् । क्रमशो विलसितमपि चेतनया, तदपि न पुरः प्रभातम् आत्मन्० ॥४॥ आत्मन्० ॥१॥ १४ For Private & Personal Use Only आत्मन्० ॥२॥ आत्मन्० ॥३॥ आत्मन्० ॥५॥ आत्मन्० ॥६॥ आत्मन्० ॥७॥ आत्मन्० ॥८॥ _* * * www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy