________________
ज्ञानस्य आधानं भवेत् । अन्यथा ज्ञानशून्यायाः तपोभक्त्याराधनादिक्रियायाः मूल्यम् अकिञ्चित्करम् एव सा च क्रिया केवलं कायक्लेशः एव भवति । कदाचित् तु या कर्मनिर्जरायाः कारणं सा एव कर्मबन्धस्य कारणम् अपि स्यात् । अतः वस्तुतः तादृशी क्रिया दोषः एव ज्ञेयः । यदुक्तं च
" जो उ गुणो दोसकरो, न सो गुणो, दोसमेव तं जाण" । १
ननु यदि एवम् अस्ति तर्हि 'ज्ञानक्रियाभ्यां मोक्ष:' इति कथम् उक्तम् ? इति शङ्का जायते । किन्तु अत्र अपि विवेकपूर्वकम् आलोचनीयम् ।
बन्धो ! यथा न ज्ञानमात्रेण मोक्षः, तथा एव न केवलं क्रियया अपि मोक्षः भवति । किन्तु द्वयोः समागमे सति एव मोक्षः भवति । एवं द्वयोः ज्ञानक्रिययोः समानता वर्णिता अस्ति । तथा अपि शास्त्रेषु क्रियातः ज्ञानस्य महत्ता विशेषत: निरूपिता । अत्र अपि शास्त्रपठनमात्रज्ञानस्य न मूल्यम्, किन्तु विवेकपूतस्य ज्ञानस्य एव । यतः कदाचित् पठितज्ञानस्य अजीर्णं भवेत् । तदा चित्ते स्वच्छन्दता - उद्धतता - अहङ्कारादिदुर्गुणाः उत्पद्यन्ते । पश्चात् च तादृशं ज्ञानं स्व- परयोः उभयोः अपकारकं भवति । शासने समाजे च महान्तं क्लेशं जनयति । अन्नस्य अजीर्णम् एकं भवम् एव नाशयति, किन्तु ज्ञानस्य अजीर्णं तु अनेकान् भवान् नाशयति, अतः ज्ञानस्य अजीर्णं तु अतीव दुष्टम् अस्ति । अधुना समाजे सङ्खे च क्लेशः वर्तते, तन्मूलम् अपरिणतं ज्ञानम् एव अस्ति । अतः एव विवेकयुक्तस्य ज्ञानस्य एव प्राधान्यम् अस्ति । तादृशं ज्ञानम् एव सूर्योपमं कथितम्, तथा खद्योततुल्या क्रिया प्ररूपिता अस्ति । एवं द्वयोः मध्ये बृहद् अन्तरं विद्यते । महोपाध्याय श्रीयशोविजयेन व्याकृतम्
क्रियाशून्यं च यज्ज्ञानं ज्ञानशून्या च या क्रिया 1
अनयोरन्तरं ज्ञेयं भानुखद्योतयोरिव ॥ ( ज्ञानसारप्रकरणम्)
यत: अज्ञानिनः बहुशः अनुकरणशीलाः परबुद्धिनिर्भराः च सन्ति । तत: एकेन यत् कृतं तद् द्वितीयेन, पश्चात् तृतीयेन, एवं परम्परया तद् एव क्रियते । अत्र तत्क्रियायाः रहस्यं लाभं च न के अपि जानन्ति । तेन कारणेन क्रियाया: कष्टं विषह्य १. यः तु गुणः दोषकरः, न सः गुणः, दोषम् एव तं जानीहि ।
Jain Education International
७३
For Private & Personal Use Only
mmm
www.jainelibrary.org