________________
एव योगभेदानां सम्यक्त्वम् अनुमीयते । यतः कारणशुद्धिः यत्र विद्यते तत्रैव कार्यशुद्धिः भवति । मूलशुद्धि विना एव योगभेदानां वर्णनं तु वन्ध्यापुत्रस्य जातिकुलशीलादीनां वर्णनम् इव आभासते । तत्र यद्यपि अध्यात्मं भावना ध्यानं समता वृत्तिसंक्षयः इत्यादिरूपेण नामसङ्ख्यादीनां साम्यं विद्यते एव किन्तु तद्वर्णनं तु निर्विषयम् एव भवति ।
एवं तु मूलशुद्ध्येह, योगभेदोपवर्णनम् । चारुमात्रादिसत्पुत्र-भेदव्यावर्णनोपमम् ॥ ५११ ॥ अन्यद् वान्ध्येयभेदोप-वर्णनाकल्पमित्यतः । न मूलशुद्ध्यभावेन, भेदसाम्येऽपि वाचिके ॥५१२॥
अतः एव अत्र गोचरादित्रिकस्य संवादितां साधयितुम् एकान्तपक्षाणां निरसनं कृत्वा सत्यं स्थापितं पूज्यैः । अत्र महेशानुग्रहात् मोक्षः, आत्मनः एकान्तसत्त्वम् एकान्तासत्त्वं वा, अनादिशुद्धतादिभेदकल्पना, कुमारिलमतम्, साङ्ख्यमतम्, नैरात्म्यदर्शनात् मुक्ति:, क्षणिकवादः, एकान्तनित्यवादः - इत्याद्यनेकानां दार्शनिकमतानां पदार्थानां च विस्तृतां चर्चां कृत्वा युक्त्या प्रयुक्त्या च सत्यं प्रकाशितं ग्रन्थकृद्भिः । किन्तु अत्र स्थ तु तान् सर्वान् अपि वादान् परित्यज्य ग्रन्थान्तर्गत: योगपदार्थः एव केवलं जिज्ञासूनां कृते यथातथं प्रस्तुतः अस्ति । इति ।
योगलक्षणम्
Jain Education International
योजनाद् योग इत्युक्तो मोक्षेण मुनिसत्तमैः । स निवृत्ताधिकारायां, प्रकृतौ लेशतो ध्रुवम् ॥ २०१ ॥
यः मोक्षेण योजयति सः योगः इति मुनिपुङ्गवानाम् उक्तिः । एतादृग्लक्षणः योग: पुरुषात् प्रकृतेः अधिपत्यं यदा किञ्चित् निवृत्तं भवति तत्पश्चात् एव भवति । यतः प्रकृतेः अधिकारः यावत् न्यून: न भवति न तावत् मोक्षमार्गं प्रति तत्त्वमार्गं प्रति वा रुचिः श्रद्धा जिज्ञासा वा प्रवर्तते । स्वत्वस्य सम्यग्बोधार्थं प्रकृतेः अधिकारस्य निवृत्तिः अनिवार्या अस्ति । यथा अन्यरोगाणां कारणीभूतैः - कुष्ठादिरोगैः अभिभूतस्य जनस्य
३१
For Private & Personal Use Only
www.jainelibrary.org