________________
।
24TA
एकत्र स्थले तैः एव उक्तं यत् - 'सत्यस्य अन्वेषकैः यतः कुतश्चित् अपि प्राप्यमाणम् अंशभूतम् अपि सत्यं स्वीकरणीयम् एव । यतः तत् सत्यं तु महासत्यस्य एव अंशरूपं भवति' - इति । अत: एव च अस्मिन् योगबिन्दुग्रन्थे अपि स्थले स्थले अन्यदर्शनकाराणां योगमार्गस्य प्रणेतृणां च कथनानां समन्वयः दरीदृश्यते । योगमार्गे विवादः वर्जनीयः इति तेषां मतिः । यतः विवादः न तत्त्वप्राप्तेः उपायभूतः ।
वादांश्च प्रतिवादांश्च, वदन्तो निश्चितांस्तथा ।
तत्त्वान्तं नैव गच्छन्ति, तिलपीलकवद् गतौ ॥६७॥ एवं सत्यपि यस्यां विचारसरण्यां दृष्टौ वा आग्रहेण योगमार्गः रुध्येत बाधितः वा भवेत् फलप्राप्ति: वा विसंवादिनी स्यात् तर्हि तादृशस्य असदाग्रहस्य युक्त्या प्रयुक्त्या तर्केण वा निरासम् अपि ते कृतवन्तः एव । यतः एकान्तः तु सत्यस्य विघातक: अस्ति । एकान्तदृष्टिं च अवलम्ब्य योगमार्गे प्रवृत्तः साधकः तु कदाचित् दिग्भ्रान्तः कदाचित् च मार्गच्युतः वा अपि भवति । अतः तादृशानां पक्षाणां निरसनं कृत्वा तैः सत्यम् उद्घाटितम् अस्ति ।
मोक्षस्य हेतुभूतः अस्ति योगमार्गः - इत्यत्र च सर्वे अपि योगशास्त्रकाराणाम् ऐकमत्यम् अस्ति । नास्ति कुत्रचित् विरोधलेशः अपि । एवं सत्यपि योगस्य गोचरादिशुद्धिः अनिवार्या अस्ति । योगस्य विषयः तस्य स्वरूपं तस्य फलं च, इति त्रितयं यदि परस्परम् अविसंवादि स्यात् तर्हि एव योगशब्दस्य मुख्यः अर्थः - 'मोक्षण योजनाद् योगः' - इति सङ्घटते । विषयादिषु परस्परं यदि संवादिता न स्यात् तर्हि योगमार्गे कृत: प्रयत्नः दिक्शून्या गतिः इव आभाति ।
मोक्षहेतुत्वमेवाऽस्य, किन्तु यत्नेन धीधनैः । सद्गोचरादिसंशुद्धं, मृग्यं स्वहितकाङ्क्षिभिः ॥४॥ गोचरश्च स्वरूपं चं, फलं च यदि युज्यते ।
अस्य योगस्ततोऽयं यन्मुख्यशब्दार्थयोगतः ॥५॥ एषा गोचरादिशुद्धिः मूलशुद्धिः इति उच्यते । यथा मातापितॄणां विशुद्धजातिकुलशीलादिभिः पुत्राणां जातिकुलशीलादीनां विशुद्धिः अनुमीयते तथैव मूलशुद्ध्या
FE
३० For Private & Personal Use Only
Jain Education International
www.jainelibrary.org