SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ आश्विादयाची योगबिन्दु दोहनम् ।। मुनिरत्नकीर्तिविजयः भूमिका अस्य योगबिन्दुग्रन्थस्य प्रणेतारः सूरिपुरन्दराः भवविरहाङ्काः आचार्यश्रीहरिभद्रसूरिभगवन्तः जिनशासनस्य परमगीतार्थाः सर्वमान्याः महापुरुषाः आसन् । येषां नाम विना न्यूनता अनुभूयेत येषां च वचनानां साहाय्यं विना जैनागमानां रहस्यप्रापणं दुःशक्यप्रायं, एतादृशैः एतैः महापुरुषैः स्वकीयजीवने चतुश्चत्वारिंशदधिकचतुर्दशशतग्रन्थाः रचिताः आसन् । यद्यपि सम्प्रति तेषां सर्वेऽपि ग्रन्थाः न विद्यन्ते, अल्पसङ्ख्याकाः एव उपलभ्यन्ते, तथापि तावत्सु अपि ग्रन्थेषु जिनवचनानां मर्मोद्धाटकः यज्ज्ञानवैभवः प्राप्यते तं प्राप्य अपि सानाथ्यम् अनुभवन्ति साम्प्रतकालीनाः ज्ञानपिपासवः । तत्र उपलभ्यमानम् एकैकम् अपि पदार्थनिरूपणं जिनागमान्तर्गतानां गम्भीरपदार्थानाम् ऐदम्पर्यार्थम् अधिगन्तुं दीपस्तम्भसदृशम् अस्ति । कतिचित्, विंशतिविशिकान्तर्गतं योगविंशिकाप्रकरणम्, योगदृष्टिसमुच्चयः, योगशतकं, योगबिन्दुः, इत्यादयः योगविषयकाः ग्रन्थाः अपि तेषाम् उपलब्धाः सन्ति । तेषु तेषु ग्रन्थेषु योगमार्गस्य भिन्नभिन्नदृष्ट्या निरूपणं कृतम् अस्ति । दृष्टिभेदे सत्यपि न तत्र कुत्र अपि विरोधः दृश्यते । एतादृशं विशदनिरूपणं साम्प्रतं न सर्वत्र उपलभ्यते । तैः रचितेषु ग्रन्थेषु सर्वत्र अनुभूयमानम् एकं वैलक्षण्यम् अस्ति-समन्वयः । सर्वेषां दर्शनानां दर्शनकाराणां च दृष्टिषु अपि यत् सत्यं वर्तते तस्य शब्दभेदम् उपेक्ष्य स्वीकरणं, तस्य च स्वदृष्ट्या सह समन्वयं कृत्वा निरूपणम्-इत्येतत् तेषां ग्रन्थेषु प्रतिपदम् अनुभूयते । यः तु तत्त्वरसिकः भवति सः न कदाऽपि शब्दभेदं पुरस्कृत्य विरोधम् उद्भावयति । एतत् तु योगबिन्दुग्रन्थारम्भे एव स्थापितं तैः यत् मोक्षहेतुर्यतो योगो, भिद्यते न ततः क्वचित् । साध्याभेदात् तथाभावे, तूक्तिभेदो न कारणम् ॥३॥ H Jain Education International २९ For Private & Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy