________________
मतिभ्रंशः भवति तथैव प्रकृतेः आधिपत्यं यावत् पुरुषस्य उपरिष्टात् वर्तते तावत् सः प्रकृतेः व्यापारं स्वकीयम् एव व्यापारं मन्यते । योगमार्गस्य सम्यग् ज्ञानं तस्य न भवति ।
अनिवृत्ताधिकारायां, प्रकृतौ सर्वथैव हि । न पुंसस्तत्त्वमार्गेऽस्मिन्, जिज्ञासाऽपि प्रवर्तते ॥ १०१ ॥ क्षेत्ररोगाभिभूतस्य, यथाऽत्यन्तं विपर्ययः । तद्वदेवाऽस्य विज्ञेय- स्तदावर्तनियोगतः ॥१०२॥
जिज्ञासायामपि ह्यत्र, कश्चित्सर्गो निवर्तते । नाsक्षीणपाप एकान्ता-दाप्नोति कुशलां धियम् ॥ १०३ ॥ ततस्तदात्वे कल्याण-मायत्यां तु विशेषतः । मन्त्राद्यपि सदा चारु, सर्वावस्थाहितं मतम् ॥ १०४ ॥ ( योगिराजगोपेन्द्रस्य वचनरूपाः एते चत्वारः श्लोकाः ग्रन्थे उद्धृताः पूज्यै: 1 ) योगलक्षणे प्रयुक्तः निवृत्ताधिकारशब्दः ध्यानार्हः । एषः शब्दप्रयोगः एव पूज्यानाम् औदार्यस्य प्रमाणम् । निवृत्ताधिकारस्तु जैनदर्शने ग्रन्थिभेदरूपेण उपलक्षितः अस्ति । आत्मनि रागद्वेषाणां वर्तमानः तीव्राध्यवसायः नाम ग्रन्थिः, तस्याः भेदनं ग्रन्थिभेदः । एतादृश: ग्रन्थिभेदः येन कृतः अस्ति तस्य चित्तं तु सततं मोक्षे एव लीनं भवति, न संसारे । संसारे तु सः शरीरेण एव प्रवर्तते किन्तु तस्य अध्यवसायाः मोक्षैकनिष्ठाः एव भवन्ति । अतः एव तस्य सर्वाः अपि प्रवृत्तयः मोक्षफलदायिन्यः एव भवन्ति । अत: एव च तस्य योगः अपि भावयोगः इति उच्यते ।
Jain Education International
भिन्नग्रन्थेस्तु यत्प्रायो, मोक्षे चित्तं भवे तनुः । तस्य तत्सर्व एवेह योगो योगो हि भावतः ॥२०३॥
योगमाहात्म्यम्
योगः कल्पतरुः श्रेष्ठो, योगश्चिन्तामणिः परः । योगः प्रधानं धर्माणां योगः सिद्धेः स्वयंग्रहः ॥ ३७ ॥
३२
For Private & Personal Use Only
helend
www.jainelibrary.org