SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ अतः एव च यस्य मुक्त्यादिषु - मुक्तौ, मुक्त्युपायेषु, मुक्तिपथप्रस्थितेषु जनेषु च द्वेषः नाऽस्ति सः एव गुरुदेवादीनां पूजनम् अपि शोभनया रीत्या औचित्येन च कर्तुं शक्नोति । यतः लघु अपि सत्कृत्यं महादोषवतां न गुणाय भवति । अतः च मुक्ति द्विषन् जन: गुरुदेवादीनां पूजनं कुर्यात् चेदपि न तत् सत्कृत्यत्वेन गणयितुम् अर्हति । गुरुदेवादीनां पूजनेन यावान् लाभः न भवति तावान् लाभः तु मुक्त्यद्वेषेण भवति । अतः मुक्त्यद्वेषमूलकः अयं गुरुदेवादिपूजनलाभ: । एवं च मुक्त्यद्वेषः तु पूर्वसेवायाः मुख्यः गुणः । Jain Education International कृत्संकर्मक्षयान्मुक्ति-र्भोगसङ्क्लेशवर्जिता । भवाभिनन्दिनामस्यां द्वेषोऽज्ञाननिबन्धनः ॥१३६॥ श्रूयन्ते चैतदालापा, लोके तावदशोभनाः । शास्त्रेष्वपि हि मूढाना - मश्रोतव्याः सदा सताम् ॥ १३७ ॥ वरं वृन्दावने रम्ये, कोष्टुत्वमभिवाञ्छितम् । न त्वेवाऽविषयो मोक्षः, कदाचिदपि गौतम ! ॥॥१३८॥ महामोहाभिभूतानामेवं द्वेषोऽत्र जायते । अकल्याणवतां पुंसां, तथा संसारवर्धनः ॥१३९॥ नास्ति येषामयं तत्र, तेऽपि धन्याः प्रकीर्तिताः । भवबीजपरित्यागात्, तथा कल्याणभागिनः ॥१४०॥ येषामेवं न मुक्त्यादौ, द्वेषो, गुर्वादिपूजनम् । त एव चारु कुर्वन्ति, नाऽन्ये तद्गुरुदोषतः ॥ १४७ ॥ सच्चेष्टितमपि स्तोकं, गुरुदोषवतो न तत् । भौतहन्तुर्यथाऽन्यत्र, पादस्पर्शनिषेधनम् ॥१४८॥ गुर्वादिपूजनान्नेह, तथा गुण उदाहृतः । मुक्त्यद्वेषाद्यथाऽत्यन्तं महापायनिवृत्तितः ॥१४९॥ ४० For Private & Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy