SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ - HAPA G ज्ञानावरणीय-दर्शनावरणीय-वेदनीय-मोहनीय-आयु-र्नाम-गोत्रा-न्तरायरूपाणि अष्ट कर्माणि सन्ति । तत्र प्रत्येकं कर्म आश्रित्य अष्टदिनप्रमाणं तपः क्रियते । तत्र प्रथमदिने उपवासः, द्वितीयदिने एकाशनम्, तृतीयदिने 'एकसिक्थम्, चतुर्थदिने 'एकस्थानकम्, पञ्चमदिने २ एकदत्तिः, षष्ठदिने निर्विकृतिका, सप्तमदिने आचाम्लम्, अष्टमदिने अष्टकवलानि - एवम् अष्टवारं क्रियते । आहत्य च चतुःषष्टिदिनप्रमाणम् एतत् तपः भवति । तथा 'नमा अ सि आ उ सा नमः' इत्यादिनानाविधमन्त्राणां जापः अपि तपःकाले कर्तव्यः भवति । (४) मुक्त्यद्वेषः - योगमार्गस्य चरमं मुख्यं च लक्ष्यम् अस्ति मोक्षः । तादृशः मोक्षः सकलकर्मणां क्षयेण एव प्राप्यते । एतादृशि मोक्षविषये अपि कतिषुचित् ।। शास्त्रेषु एवंरूपाणि वचनानि श्रूयन्ते-यथा ६ जड़ तत्थ नत्थि सीमंतिणीओ मणहरपियंगुवण्णाओ । ता रे ! सिद्धतिय ! बंधणं नु मोक्खो न सो मोक्खो ॥ वरं वृन्दावने रम्ये, क्रोष्टुत्वमभिवाञ्छितम् । न त्वेवाऽविषयो मोक्षः, कदाचिदपि गौतम ! ॥१३८॥ इत्यादीनि । किन्तु एतद्रूपः मुक्ति प्रति द्वेषः तु असारेऽपि संसारे बहुमानं धारयतां भवाभिनन्दिनां जीवानाम् अज्ञानमूलकः भवति । महामोहाभिभूतानां स्वाकल्याणकर्तृणां च जीवानाम् एव एषः संसारवर्धकः द्वेषः उत्पद्यते । किन्तु येषां चित्ते अयं द्वेषः नास्ति ते धन्याः सन्ति, भवबीजं च त्यक्त्वा ते एव कल्याणभागिनः भवन्ति । १. धान्यस्य एककणप्रमाणम् एव भोजनम् । २. अन्याङ्गानां स्पन्दनं वर्जयित्वा केवलं मुखस्य दक्षिणहस्तस्य च एव चालनपूर्वकम् एकवारं यत् ।। भोजनं क्रियते तत् । ३. रुक्षम् अपि भोजनं यावत् भक्षणीयं स्यात् तावत् सकृत् एव ग्रहणीयम् । ४. एकवारम् एव घृतदुग्धादिविकृतिषट्करहितं भोजनम् । ५. सर्वथा नीरस: आहारः । ६. यदि तत्र नाऽस्ति सीमन्तिन्यो मनोहरप्रियङ्गवर्णाः । ततः रे ! सैद्धान्तिक ! बन्धनं खलु मोक्षः न स मोक्षः ॥ ANESERERNA Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy