________________
द्वयोः द्वन्द्वे सफलः तृतीयः
कथा)
विजयसूर्योदयसूरिः
आसीत् कः अपि एकः क्षत्रियपुत्रः । सः सुखी वीरः च आसीत् ।
एकदा तस्य गृहे चौरः आगतः । कृतं चौर्यम् । तदा एव उत्थितः क्षत्रियः । तत् चौरं बद्ध्वा राजपुरुषाय अदात् सः । राजपुरुषः तम् आदाय न्यायसभायाम् अगात्।
तत्र चौरेण गदितम् - "एतेन क्षत्रियेण मे धनम् अपहृतम् " इति । एतत् श्रुत्वा त्वरितम् एव क्षत्रिय आह- "मम धनम् एतेन चोरितम्" इति ।
अन्ते "गृहप्रवेशापराधं चौरे निश्चित्य चौरः अयं द्विमासं यावत् कारागारे तिष्ठतु" इति न्यायाधिकारिणा आज्ञापितम् ।
"मम धनं दीयताम्" इति क्षत्रियेण कथितम् ।
तदा न्यायाधीशः अवदत् - "इदं धनं भावत्कम् इति साक्षिणं विना कथं निश्चेतुं शक्यम् ? अतः गत्वा साक्षिणम् आनयतु । यदि ते कथयिष्यन्ति 'धनम् अस्य अस्ति' इति तदा दापयिष्यामि" ।
तदा क्षत्रियः अवक् - यत्, महाचौरः आगतः, चोरितं च धनम्, तदा कुतः साक्षी ?
न्यायाधीशः उवाच - "साक्षिणं विना कथं धनं दीयते ?" __ ततः क्रुद्धः सन् क्षत्रिय: चौराय चपेटां दत्त्वा कथितवान् - "रे ! मूर्ख ! त्वं चौर्याय आगतः तदा घोटके उपविश्य आगतः चेत् तर्हि तम् अपि साक्षीकृत्य धनं मम का स्वाधीनं कर्तुं शक्यम् अभविष्यत्, किन्तु अधुना तु न धनं मम अभूत्, न तव" इति ।
Jain Education International
८६ For Private & Personal Use Only
www.jainelibrary.org