SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ कथा श्रुतिव्यसनम् हरिदास: नाम एकः श्रेष्ठी आसीत् । सः च परमविष्णुभक्तः । सः आद्वादशवर्षात् 'भागवतं' शृणोति स्म । प्रतिदिनं व्यासः कथार्थम् आगच्छत् । एकदा हरिदासः व्यासाय अकथयत्- "कल्ये अहं बहिः गमिष्यामि । कथायाः श्रवणं कथं करिष्यामि ? यतः नियमस्य भङ्गः भविष्यति" इति । व्यासः आह कथां करिष्यामि अहम्, भवत्पुत्रः श्रवणं करिष्यति । ततः न नियमभङ्गः भवेत् । 1 Jain Education International विजयसूर्योदयसूरिः तत् श्रुत्वा विस्मितः सन् हरिदास: उवाच - प्रभो ! न एवम् सः तु बालः, सः च सरलहृदयः । ततः कथां श्रुत्वा संसारात् विरक्तः भवेत् कदाचित् । व्यासः अवाक् भवान् एतां कथां द्वादशवर्षात् शृणोति, न च तथा अपि विरक्त: जात: । तर्हि अयं तु कथम् एकदिनेन एव कथां संश्रुत्य विरक्तः भविष्यति ? तदा श्रेष्ठिना व्याकृतम् - अयं बालः अस्ति । " श्रुते कुत्र प्रवर्तितव्यं कुत्र न" इति न जानाति एषः । 00-00-0 अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेभ्यः । अर्थं हितमहितं वा न वेत्ति येनाssवृतो लोकः ॥ [ शीलाङ्काचार्यकृतायाम् - आचाराङ्गवृत्तौ ।] ८५ For Private & Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy