SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ बेस्सानियः न्यायमूर्तिमहोदय ! इदम् इह गृह्णातु तत्प्रदत्तस्य दशगुणं धनं मन्मित्रं च मोचयतु सः । न्यायमूर्तिः पश्य पश्य भोः शैलाक !, बेस्सानियः त्वया दत्तस्य दशगुणितं धनं प्रयच्छति । तत् स्वीकुरु । येन प्रकरणम् इदम् अत्र एव समाप्यताम् । उभयोः समाधानं च जायताम् । तत् प्रतिज्ञापत्रम् एतत् छित्त्वा शकलीकुरु प्रक्षिप च । अधुना तेन पत्रेण किम् अपि कृत्यं न अस्ति । मैत्री दया प्रेम विश्वासः च यत्र विद्यन्ते तत्र पत्रेण किम् ? प्रमाणेन च अपि किम् ? ( शैलाकः तु सर्वथा न अनुमन्यते समाधानार्थम् । तदा) न्यायमूर्तिः (अण्टोनियम् उद्दिश्य) भोः ! त्वया हस्ताक्षरै: अङ्किते प्रमाणपत्रे यत् प्रतिश्रुतं तद् अनिवार्यतया तावत्याम् अवधौ त्वया दातव्यम् एव भवति । तत्र तव अशक्तौ तु शैलाक: यदि त्वां क्षान्त्वा विमोचयितुं न अपेक्षते न च अनुमन्यते तर्हि प्रतिश्रुतानुसारं छिन्नशरीरस्य तव पौण्डमितं मांसं त्वया अवश्यं प्रदेयम् । न अन्यं मार्गं एतेन विना न्यायमार्गे पश्यामि । शैलाकः ( छुरिकां भ्रामयन्) हं हो ! देवसदृशः अयं न्यायमूर्तिः कथं कैः वा शब्दैः अभिनन्द्यताम् ? नूनं मदनुग्रहाय एव अवतीर्णः अस्ति अयम् । न अत्र विद्यते सन्देहलेशः अपि । (हर्षेण केकायते ।) न्यायमूर्तिः (अण्टोनियम् उद्दिश्य) भोः ! सिद्धः भव, अपसारय तव परिधानम् । सुष्ठु प्रदर्शय तव वक्षःस्थलं यस्मात् शैलाकः यथाभिलषितं पौण्डमितं मांसपिण्डं छित्त्वा गृह्णीयात् । (एतच्छ्रवणेन) शैलाक: हं हो ! मम भाग्यविधात्रे न्यायमूर्तये भूयांसि नमांसि हार्दिकानि च अभिनन्दनानि ! न्यायमूर्ति: ( एतावता अपि धीरं हसन्मुखं तथा ईषद् अपि अविचलितम् अण्टोनियं पुनः अपि उद्दिशन् - ) कुतः विलम्बः भोः अण्टोनिय! ? प्रदर्शय एतस्मै तव वक्षः येन यथाभिमतं मांसखण्डं छिनत्तु एषः । Jain Education International १०४ For Private & Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy