________________
Jain Education International
चतुर्दशोऽधिकारः असद्ग्रहत्यागः [मालिनी]
क्वचिदपि शुभगेहे संस्थितोऽप्युच्चभावं न खलु समुपयायान्नीचतां नैव मुञ्चेत् । सरलपथमुपेतो चक्रमेव प्रयाति, श्रियमभिलषमाणैर्दुग्रहो नैव सेव्यः ॥१॥
विनयनयविवेकज्ञानविज्ञानधर्मव्रतनियमविचाराचारसंस्कारसारम् । तृणनिकरमिवाऽग्निर्यो दहत्यस्तमूलं, तमसदभिनिवेशं क्लेशमूलं निहन्यात् ॥२॥
सदभिरुचिनिवासो यत्र कुत्राऽपि न स्यात्, प्रसरति विपदुद्यन्निम्नगानां प्रवाहः । क्रुधसमदवदावो द्वेषधूमानुविद्धः, कुगतिकुमतिमूलं मुञ्च तं दुग्रहाद्रिम् ॥३॥
सलिलमपरिपक्वे स्थापितं चेद्घटे तं, विघटयति निजं वा ध्वंसयत्येवमेवम् । श्रुतसलिलमपीष्टं दुर्गहग्रस्तजीवे, निहितमनुपदं तं नाशयित्वा विनश्येत् ॥४॥
चिरतरमनुचीर्णं चारुचारित्रवृत्तं, तपउपनतभावं पिण्डशुद्धं प्रतप्तम् । फलदलमपि नाऽऽप्तं निह्नवैर्यन्निकामं, तदसदभिनिवेशस्यैव दोषो दुरन्तः ॥५॥
५
For Private & Personal Use Only
www.jainelibrary.org