________________
(भूमिका : पुरा इटलीदेशस्य विश्रुते वेनिस्-नगरे अण्टोनियः नाम वणिग्वर्यः 6 निवसति स्म । सः च दूरविदूरदेशीयैः सह समुद्रयानमुखेन बृहन्नौकासु खाद्यवस्त्राभरणादिबहुमूल्यानां सामग्रीणाम् आयात-निर्यातवाणिज्यं प्रचालयति स्म । धनिकः अपि स सरलजीवी उदारस्वभाव: बहुजनप्रियः च आसीत् ।
अण्टोनियस्य प्रियसुहृत् बेस्सानियः नाम योध: निकटवर्तिनि बेल्माण्ट-नामनगरे निवसन्त्यां पोर्षिया-नाम्न्यां सुरूपलावण्यवत्यां ललनायां गाढानुरक्तः आसीत् । परं तस्याः सुन्दरीमण्याः पाणिग्रहणाय अवश्यमुपपादयितव्यस्य कन्याशुल्कस्य स्वर्णमुद्राणां सहस्रस्य उपपादने सः असमर्थः आसीत् । अतः सुहृत्सखाय अण्टोनियाय धनसाहाय्यं । याचितुकामः सः कदाचित् राजोद्याने तेन सह विहरन् स्वोद्दिष्टं तस्मै प्रास्तवीत् ।)
- प्रथमं दृश्यम्
: बेस्सानियः मित्र ! कश्चिद् युवा सर्वथा समर्थः तेजस्वी मेधावी शीलसम्पन्नः च .
लावण्यवती कोट्यधिपतिदुहितरं श्रीमती प्रीणाति । तां च परिणेतुम् उत्सुकः अस्ति । परं सः असौ युवा यद्यपि न दरिद्रः तथा अपि न धनिकः अपि । तेन हि परिणयसिद्ध्यै किं वा करणीयम् ? इति
जिज्ञासामि । अण्टोनियः सखे ! सुष्ठ जानासि यत्
ययोरेव समं वित्तं ययोरेव समं कुलम् ।
तयोमैत्री विवाहश्च न तु पुष्टविपुष्टयोः ॥ अपि च, सा युवती यदि धनपतिम् एव परिणिनीषति, क्व अस्ति ।
पृथग्जनस्य त्वादृशस्य अवकाशः ? बेस्सानियः यदि सा न केवलं लावण्यवती, अपि तु शीलवती बुद्धिमती च भवेत् 0
तदा नूनं सा न कोट्यधिपतिं परिणिनीषेत् । किन्तु विवेकिनं शीलसम्पन्न च कञ्चित् परिणिनीषेत् खलु ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org