________________
त्रयोदशोऽधिकारः मिथ्यात्वत्यागः [मन्दाक्रान्ता]
وعندلاعقلاقلاع
علاقه
मिथ्यात्वं ही भवभवनभृद्वज्रमूलं समूलं,
श्रेयस्कामो धृतहितपथः काममुन्मूलयेत्तत् । यावन्मिथ्यापरिणतिपरस्तावदुन्मत्तभूतः,
संसारान्नो नरकसदृशान्मुक्तिमेतुं विमर्श: ॥१॥ मिथ्यामोहाद्भवति विमतिश्चेतनस्याऽस्तिताया
मध्यक्षं नाऽवगमयति तां नाऽनुमानं विलिङ्गात् । नोऽसादृश्याल्लसदुपमितिर्नैव शास्त्रप्रभेदाद्
नास्त्येवाऽऽत्मा मतमितिमतं नास्तिकानामकान्तम् ॥२॥ आत्मास्तित्वं भवतु पतो नास्ति नित्योऽयमात्मा,
नित्यश्चेन्नो कथमपि भवेदस्य नानास्वरूपम् । देवो भूत्वा भवति मनुजो नारकश्चाऽपि तिर्यङ्
सूक्ष्मेक्षित्वे प्रतिपलमसौ भिद्यतेऽदोऽपि मिथ्या ॥३॥ आस्तां नित्यः परमिह न वै कर्तृता कार्यसाध्या,
कर्तृत्वं हि प्रकूतिनियतं चेतने तत् कथं स्यात् । साख्यानां तत् सदसि विदुषां मुक्तसङ्ख्यं विमुग्धं,
सम्यग् युक्त्या मननविषयं नीयमानं विभाति ॥४॥ कामं कर्ता पुरुष इह ही स्यात् परं नास्ति भोक्ता,
भोगस्तस्य प्रभवति न यन्मूर्तताऽस्मिन्न चाऽस्ति । नाऽमूर्तानां क्वचिदपि भवेद्भुक्तिरित्यादि मिथ्या,
यत् स्याद्वादाश्रयणकरणाद् दोषलेशोऽपि न स्यात् ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org